पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ आनन्दागिरिकृतीकासवलितशांकरभाष्यसमैता [ ८ अष्टमाध्याये- मत आहे-- - - तद्विकार इति किं च व्यावहारिकं सत्यमिदं शरीरं तद्युक्तं तस्यानृत- स्यापि ब्रह्मोपलय्य्यधिष्ठानस्य ब्रह्मपुरत्वमित्याह – व्यावहारिकमिति । ब्रह्म तु परमार्थ- सत्यमतश्चैतदेव सत्यमित्युक्त ब्रह्मपुरमित्याह -- सत्यं त्विति । ब्रह्मणः सत्यत्वेऽषि पुर ज्वायोगात्कुता ब्रह्मपुरत्वभिःयाशङ्काचाऽऽह -- सर्व व्यवहारैति । दहराकाशस्यास्त्वं विना- शित्वमित्याशङ्कितं दोषं परिहृत्योपास्यवसिद्धयर्थं पातनिकां करोति—अत इति । अस्मिन्सर्वकामसमःत्राने फलितमुपास नमुपदिशति-- अतस्तादिति । यथोक्ते दह।कार्शे कीदृगुपासनं कर्तव्यमित्यपेक्षायाम ग्रहेणेसाह - एष इति । - 1₁ शणुल तस्य लक्षणम् । अपहतपा'मा | अपहृतः पाप्मा धर्माधर्माख्यो यस्य सोइयमपहलपा'मा । तथा विजरो विगतजरो विमृत्युश्च । तदुक्तं पूर्वमेव न बधे- नास्य हन्यत इति । किमर्थं पुनरुच्यते । यद्यपि देहसंकन्धिभ्यां जरामृत्युभ्या न संबध्यते । अन्यथाऽपि संवन्यस्ताभ्यां स्यादित्याशङ्कननिष्टत्यर्थम् । विशोको विगतशोकः शोको नामेष्टादिवियोगनिमित्तो मानसः संतापः | विजिघत्सो विगताशनेच्छः | अपिपासोऽपानेच्छः । नन्वपहृतपाप्मत्वेन जरादयः शोकान्ताः अतिषिद्धा एव भवन्ति । कारणप्रतिषेधात् धर्माधर्मकार्या हि तं इति । जरा- दिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोरध्यसत्समत्वमिति पृथकम तिषेषोऽनर्थकः स्यात् । सत्यमेवं तथाऽपि धर्मकार्यानन्द व्यतिरेकेण स्वाभावि कानन्दो यथेश्वरे विज्ञानैमानन्दं ब्रह्मेति श्रुतेः । तथाईधर्मकार्य जरादि व्यतिरेके- णापि जरादिदुःखस्वरूपं स्वाभार्विकं स्यादित्याशङ्कत्येत । अतो युक्तस्तनिवृ- सये जरादीनां धर्माधर्माभ्यां पृथकप्रतिषेधः । जरादिग्रहणं सर्वदुःखोपलक्ष- णार्थम् पापनिमित्तानां तु दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्याक्य स्वात्सर्वदुःखप्रतिषेधार्थ युक्तमेवापहृत पाप्मत्ववचनम् | सत्या अवितथाः कामा यस्य सोऽयं सत्यकामः | वितथा हि संसारिणां कामाः । ईश्वरस्य तद्विप रीताः । तथा कामहेतवः संकल्पा अपि सत्या यस्य स सत्यसंकल्पः | संकल्पाः कामाश्च शुद्धसत्त्रोपाधिनिमित्ता ईश्वरस्य | चित्रगुवत् । न स्वतो नेति नेतीत्युक्तत्वात् । यथोक्तलक्षण एवाइडमा विज्ञेयो गुरुभ्यः शास्त्रतश्चाऽऽत्मसंवेद्यतया च राज्यकामैः । न चेद्रिज्ञायते को क. म. ट. ‘त्यमुक्तं । २ क. ख. ग. घ. ङ. च. ञ. उ. ढ ढ. °न्यते कि । ३ ठ “योगादिनि” । ४.क़. ५. च. ट ठ ड ढ ण. नन्दमिति क... ङ च ट ठ ड ढ . रस्तू त" । ६ क. ग. व. ङ. च. इ. ठ. द. द. ण. 1 रीता त° ७ ख. ञ. णः को