पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता- [८अष्ठमाध्याये- यथा ह्येवेति । अमुमर्थं प्रश्नपूर्वक मन्त्राचष्टे किमित्यादिना । उक्तदृष्टान्तेन विवक्षि तभंशमनृद्य दृष्टान्तान्तरस्य तात्पर्यमाह - एष इति ॥ ५ ॥ तयथेहकर्मजितो लोकः क्षीयत एवमेव मुत्र पुण्यं जितो लोकः क्षीयते तय इहाऽऽत्मानमननुविद्य व्रजन्त्येताश्च सत्यान्कामा स्तेपार सर्वेषु लोकेष्व- कामचारो भवत्यथ य इहाऽऽत्मानमनुविय व्रजन्त्ये- ताश्च सत्याग्कामास्तेषा ५ सर्वेषु लोकेषु काम- चारो भवति ॥ ६ ॥ - इत्यष्टमा ध्यायस्य प्रथमः खण्डः ॥ १ ॥ अथान्यो दृष्टान्तस्तत्क्षयं प्रति तद्यथेहेत्यादिः । तत्तत्र यथेह लोके तासा- मेव स्वाभ्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयतेऽन्तवान्भवति । अथेदानी दार्शन्तिकमुपसंहरति — एवमेवामुत्राग्निहोत्रा- दिपुण्यजितो लोकः पराधीनोपभोगः क्षीयत एवेति । उक्तो दोष एषामिति विषयं दर्शयति तय इत्यादिना | तत्तत्रेहास्मिँल्लोके ज्ञानकर्मणोरधिकृता योग्या सन्त आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनै स्वसं- वेद्यतामा व्रजन्ति देहादस्मात्मयन्ति । य एतांश्च यथोक्तान्सत्यान्सत्यसंक- ल्पकार्योश्च स्त्रात्मस्थान्कामानननुविद्य ब्रजन्ति तेषां सर्वेषु लोकेष्वकामचा- रोऽस्वतन्त्रता भवति । यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः । अथ येऽन्य इह लोक आत्मानं शास्त्राचार्योपदेशमन विद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति राज्ञ इव सार्वभौमस्येह लोके ॥ ६ ॥ - इत्यष्टाध्यायस्य प्रथमः खण्डः ॥ १॥ केषामेष दोषो भवतीत्याकाङ्क्षा यामाह- उक्त इति । कर्मसाध्यस्य पारतन्त्र्यं क्षयि- प्णुलं च ज्ञानहीनकर्मसाध्यविषयब्रो पासकानामेष दोषो भवतीति दर्शयत्युत्तरं वाक्यमि सर्थः । अविदुषामेवास्वातन्त्र्यदोषमुक्त्वा विदुषां स्वातन्त्र्यफलं कथयति -- अत्या दिना ।। ६ ।। इत्यष्टमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ १ थ. मचितो । २ थ. °ण्यचितो | ३ क. ङ. 'नु स्वात्मसं° । ४ ङ. ढ. "स्पयान्ति । १५ ख. छ. ञ. ण. तव्यं दो ।