पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्ड: २ ] Jछान्दोग्योपनिषत् | (अथाष्टमाध्यायस्य द्वितीयः खण्डः । ) स यदि पितृलोककामो भवति संकल्पादेवास् पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते ॥ १ ॥ कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते - य आत्मानं यथोक्तल- क्षणं हृदि साक्षात्कृतवान्वक्ष्यमाणब्रह्मचर्यादिसाधनसंपन्नः संरतत्स्थांश्च सत्या- न्कामान्स त्यक्तदेहो यदि पितृलोककामः पितरी जनयितारस्त एव सुखहेतुत्वेन भोग्यत्वाल्लोका उच्यन्ते तेषु कामो यस्य तैः पितृभिः संबन्धेच्छा यस्य भवति तस्य संकल्पमात्रादेव पितरः समुत्तिष्ठन्त्यात्मसंबन्धितामापद्यन्ते । विशुद्धसत्त्व- तया सत्यसंकल्पत्त्रार्दीश्वरस्येव तेन पितृलोकेन भोगेन संपन्नः संपत्तिरिष्टमा- प्तिस्तया समृद्धो महीयते पूज्यते वर्धते वा महिमानमनुभवति ॥ १ ॥ उक्तमेवार्थमाकाङ्क्षापूर्वकमुपपादयति – कथमित्यादिना ॥ १ ॥ अथ यदि मातृलोककामो भवति संकल्पादे- चास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महीयते ॥ २ ॥ अथ यदि भ्रातृलोककामो भवति संकल्पादे- वास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन संपन्नो महीयते ॥ ३ ॥ अथ यदि स्वसृलोक कामो भवति संकल्पादे- वास्थ स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयते ॥ ४ ॥ १४७ अथ यदि सखिलोककामो भवति संकल्पादे- वास्य सखायः समुत्तिष्ठन्ति तेन सखिलांकन संपन्नो महीयते ॥ ५ ॥ १ उ. न. पितृलोकगतेन भो ।