पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० आनन्द गिरिकृतटीका अथ ये चास्मेह जीवा ये च प्रेता यच्चान्यदिच्छन्न लते सर्व तदत्र गत्या विन्दतेऽत्र ह्यत्यैते सत्याः काम अनृतापिधानास्तद्यथाऽपि हिण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरिसंचरन्तो न विन्देयुरेवमे चेमाः सर्वाः प्रजा अहरहर्गच्छत् एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥ संवलितशांकरभाष्यसमेता- [ ८ अष्ठमाध्याये- अथ पुनर्ये चास्य विदुषो जन्तोर्जीवा जीवन्तीह पुत्रा भ्रात्रादयो वा ये च मेता मृता इष्टाः संबन्धिनो यच्चान्यदिह लोके वस्त्रानपानादि रत्नादि वा वस्त्विच्छन्न लभते तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते । अत्रास्मिन्हार्दाकाशे हि यस्मादस्यैते यथोक्ताः सत्याः कामा वर्तन्तेऽनृतापिधानाः । कथमिव तदन्याय्यमित्युच्यते – तत्तत्र यथाँ हिरण्यनिधि हिरण्यमेव पुनर्ग्रहणाय निधातभिधीयत इतिनिधिस्तं हिरण्यानिधिं निहितं भूमेरधस्तान्निक्षिप्तमक्षेत्रज्ञा निधिशास्त्रनिधिक्षेत्र नजानन्तस्ते निधेरुपर्युपारी संचर न्तोऽपि निनि विन्देयुः शक्यवेदनमपि एवमेवेमा अविद्यावत्यः सर्वा - इमा: प्रजा यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोको ब्रह्मलोक स्तमह- रहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विन्दन्ति न लभन्त एषोऽहं ब्रह्मलोक भावमापन्नोऽस्म्यद्येति । अनृतेन हि यथोक्तेन हि यस्मात्प्रत्यूढा हृतोंः स्वरू- पादविद्यादिदोपहिरपकृष्टा इत्यर्थः । अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्त मपि ब्रह्म न लभ्यत इत्यभिप्रायः ॥ २ ॥ इतथ तेषामल, मे निमित्तानृतापिधानमेवेसाह - अथ पुनरिति । यथोक्तेन विधि- नेत्युपास्तिप्रकारोक्तिः । आत्मस्थानां कामानामनृतापिधानःचमुक्तं निगमयति-- अत्रेति । यस्मादविद्वद्भिरलभ्या विद्वद्भिश्च लम्याः सम्या: कामाः सर्वाधारे जगन्मूल कारणे ब्रह्मणि स्वःत्मभूते वर्तन्ते तस्मात्ते भवन्त्यनृतःपिचानाः । सत्यामविद्यायामनुष- लम्भ.द्विद्यया तत्प्रशमने चोपलम्मादित्यर्थः । यदुक्तं ब्रह्मणि सन्तोऽपि नोपलभ्यन्त इयन्याय्यमिति तत्र दृष्टान्तं प्रश्नपूर्वकमुल्यान स्वात्मनि कामा: व्याचष्टे-- ० १ ग. ङ, ज. झ. ट. उ. त. 'मास्त' | २ ठ. 'थापि हि | ३ क च ञ. ठ, ड, लोकस्त° | ४ ट न य । ५ क. ग. 'ताः स्वात्मस्त्र' । ख ग घ ङ.