पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः ४ ] छान्दोग्योपनिषत् । ३७ (अथ प्रथमाध्यायस्य चतुर्थः खण्डः।) ओमित्येतदक्षरमुद्गीथयुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥ ओमित्येतदित्यादिप्रकृतस्याक्षरस्य पुनरुपादानमुद्गीथाक्षराद्युपासनान्तरित- त्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् । प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्ट- स्योपासनं विधातव्यमित्यारम्भः । ओमित्यादि व्याख्यातम् ॥ १॥ - प्रासङ्गिक हित्वा प्रकृतमनुसंधत्ते-ओमित्येतदित्यादीति । पुनरुपादानस्य तात्प- यमाह-उद्गीथेति । आदिशब्देन पर्वोक्तान्यपसरणानि गृह्यन्ते । उद्गीथस्य तैव्येवहित- स्वारप्रकरणविच्छेदशङ्कायां ततोऽन्यस्मिन्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुनरुपादान. मित्यर्थः । देवा वै मृत्योरित्यादेस्तापर्यमाह-प्रकृतस्येति । अक्षरव्याख्यानप्राप्तावनुवा• दभागं प्रत्याह.-ओमित्यादीति ॥ १ ॥ देवा वै मृत्योंबिश्यतस्त्रयीं विद्यां प्राविशस्ते छन्दोभिरच्छादयन्यदेभिरच्छादयश्स्तच्छन्दसां छन्दस्त्वम् ॥ २॥ देवा वै मृत्योर्मारकादिभ्यतः किं कृतवन्त इत्युच्यते । त्रयीं विद्या त्रयी. विहितं कर्म प्राविशन्प्रविष्टवन्तो वैदिक कर्म प्रारब्धवन्त इत्यर्थः । तन्मृत्यो. स्त्राणं मन्यमानाः । किंच ते कर्मण्यविनियुक्तैश्छन्दोभिर्मन्त्रैर्जपहोमादि कुर्वन्त आत्मानं कर्मान्तरेष्वच्छादयंश्छादितवन्तः । यद्यस्मादेभिर्मन्त्रैरच्छादयंस्तत्त- स्माच्छन्दसां मन्त्राणां छादनाच्छन्दस्त्वं प्रसिद्धमेव ।। २ ॥ देवासुरा ह वै यत्रेत्यत्र व्याख्याता देवा मारकादासुरापाप्मनः सकाशादिति यावत् । कोऽयं कर्मणि प्रवेशो नाम तत्राऽऽह-वैदिकमिति । तदिति वैदिकं कर्मोच्यते । ते छन्दोभिरित्यादि व्याचष्टे-किंचेति । न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैकस्मिन्कमप्यनुष्टीयमाने विनियुक्तान्मन्त्रान्हित्वा कर्मान्तरेष्ववशिष्ठेपादि कुर्वन्तः स्वात्मानं देवाश्छादितवन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः । तेषां छन्दोभिश्छादि- १ क. 'न्युषासनानि । २ व. अ. दि शर्म कु । ३ ख. . °न्त्रैश्छादयन्तस्त ।