पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड: ३ ] छान्दोग्योपनिषत् । ४५१ कथमिवेत्यादिना | तत्र स्वायत्तस्थाप्यप्राप्तौ दृष्टान्ता निर्दिश्यत इति शेषः । दार्थ- न्तिकं व्याकरोति—एवमेवेति । अलाभप्रकारमभिनयति - - एषोऽहमिति । तत्र हेतुमाह — अनृतेनेति । यथोक्तेन मिथ्याज्ञानशब्दितान यनिर्वाच्यज्ञानकृतेन तृष्णाप्र- भेदेन तन्निमित्तनेच्छामैचारेणेत्यर्थः । तस्मात्प्रजानां खत्मभूतब्रह्मलोका लाभ इति शेषः । 3 स्वरूपादनृतॆन हृतत्वमेत्र स्फोरयति — अविद्यादीति | प्रकृतमाक्रोशमुपसंहरति — अत इति ॥ २ ॥ स वा एष आत्मा हृदि तस्यैतदेव निरुक्त हृयय मिति तस्माद्धृदयमहरहन एवंवित्स्वर्ग लोकमेति ॥ ३ ॥ से वै य आत्माऽपहतपाप्मेति प्रकृतो वैशब्देन तं स्मारयत्येष विवक्षित आत्मा हृदि हृदय पुण्डरीक आकाशशब्देनाभिहितः | तस्यैतस्य हृदयस्यैतदेव निरुक्तं निवेचनं नान्यत् | हृययमात्मा वर्तत इति यस्मात्तस्माद्धृदयं हृदयना- मनिर्वचन प्रसिद्धयाऽपि स्वहृदय आत्मेत्यवगन्तव्यमित्यभिप्रायः । अहरह प्रत्यहमेवंविद्धृद्ययमात्मेति जानन्सर्ग लोकं हार्द ब्रह्मेति प्रतिपद्यते । नन्वनेवँ- विदपि सुषुप्तकाले हार्द ब्रह्म प्रतिपद्यत एव सुषुप्तकाले सता सोम्य तदा संपन्न इत्युक्तत्वात् । बाढमेवं तथाऽप्यस्ति विशेषः । यथा जानन्नजानंश्च सर्वो जन्तुः सद्बह्मैव तथाऽपि तत्त्वमसीति प्रतिबोधित विद्वान्सदेव नान्योऽस्मीति जानन्सदेव भवति । एवमेव विद्वानविद्वांश्च सुषुप्ते यद्यपि सत्संपद्यते तथाऽप्येवं- व स्वर्गं लोकमेतीत्युच्यते । देहपातेऽपि द्याफलस्यावश्यंभावित्वादित्येष विशेषः ॥ ३ ॥ - अनुक्रोशद्वारा यथोक्तब्रह्मध्यानानुष्टाने प्रयनस्य कर्तव्यतोक्ता, संप्रति नामादाविक हृदये ब्रह्मदृष्ट्यारोपगात्रमिति शङ्कां वारयितुमनन्तरवाक्यमवतार्य व्याकरोति- -सवा इत्यादिना । कथमात्मा यथोक्तो हृदयेऽस्तीति गम्यते तत्राऽऽह - तस्येति । यथोक्ता- चगतिफलमाह — अहरहरिति । एवंविदिति विशेषणममृष्यमाणः शङ्कते-- नन्विति । अनेत्रविदोऽपि सुषुप्तिकाले ब्रह्मप्रतिनीकरोति — बाढमेवमिति । तर्हि किमित्येवं- विदिति विशेषणमित्याशङ्कयाऽऽह — तथाऽपीति । विद्वदविदुषो विशेषमेव दृष्टान्तेन स्पष्टयति – यथेति । त्वं तदसीत्याचार्येण प्रतिबोधितो विद्वान्सदेव भवत्यन्यस्त्वविद्वान- १ ग. छ. ट. 'प्रकारे । २ ख. छ. ञ. 'जानामात्म | ३ क. ख. छ. ण. तेनाऽऽहृ' । ४ क. ख. ञ. ण. सवा एष आ । ५ ङ. 'पुतिका' । ६ क. ङ. ठ. ढ. पुप्तिका ° । ७ ख . इ. ञ, सौम्य । क. सुषुप्ती । ९ ख. छ. ज. ण. 'नेय | १० ख. ग. छ. ञ ट प त्नक |