पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ८ अष्टमाध्याये - स्मीति देहादिकमेव जानन्न सदेव भवतीति योजना | देहपातेऽपीत्पपिशब्देन जीवदवस्था दृष्टान्तता ॥ ३ ॥ अथ य एष संप्रसादोऽस्माच्छरी रात्समुत्थाय परं ज्योतिरूपसं स्पेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४॥ २ सुतकाले स्वेनाssत्मना सता संपन्नः सन्सम्यक्प्रसीदतीति जाग्रत्स्वमयो- विषयेन्द्रिय संयोगजातं कालुष्यं जहातीति संप्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणस्तथाऽध्येवं वित्स्वर्ग लोकमेतीति प्रकृतत्वादेप संप्रसाद इति संनिहित- वद्यत्नविशेषात्सोऽथेदं शरीरं हित्वाऽस्माच्छरीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः । न त्वासनादिव समुत्थायेतीह युक्तम् । स्वेन रूपेणेति विशे- षणात् । न ह्यन्यत उत्थाय स्वरूपं संपत्तन्यम् । स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् । परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसंपद्य स्वास्थ्य- सुपगस्थेत्येतत् । स्वेनाऽऽत्मीयेन रूपेणाभिनिष्पद्यते प्रागेतस्याः स्वरूपसंपत्तेर- विद्यया देहमेवापरं रूपमात्मत्वेनोपगत इति तदपेक्षयेदमुच्यते स्वेन रूपेणेति । अशरीरता ह्यात्मनः स्वरूपं यत्स्वं परं ज्योतिःस्वरूपमापद्यते संप्रसाद एप आत्मेति होवाच । स ब्रूयादिति यः श्रुत्या नियुक्तोऽन्तेवासिभ्यः । किचैतद- मृतमविनाशि भूमा यो वै भूमा तद्कृतमित्युक्तम् । अत एवाभयं भूनो द्विती- याभावादत एतद्ब्रह्मेति । तस्य ह वा एतस्य ब्रह्मणो नामाभिधानम् । किं तत्सत्यमिति । सत्यं ह्यतिथं ब्रह्म । तत्सत्यं स आत्मेति युक्तम् । अथ किम- र्थमिदं नाम पुनरुच्यते । तदुपासनविधिस्तुत्यर्थम् ॥ ४ ॥ । "संप्रसादस्य विदुषो यन्मुक्त्यालम्बनं शुद्धं ब्रह्म तत्तादात्म्योपदेशेनोपास्यं स्तोतुं संप्र |सादशब्दार्थ कथयति — सुषुति | सम्पकप्रसीदतीति संप्रसादो विद्वानिति दोषः स्वाभाविकमेवाऽऽत्मनः स्वारथ्यं कथं सुषुप्ते प्रसीदतीति विशेष्यते तत्राऽऽह — जाग्र. दिति । जहातीति सुषुनः पुरुषः संप्रसाद इति विशेष व्युत्पत्तिबलेन संप्रसादशब्दः सौषु- सर्वजीवसाधारणस्तत्कथमेव संप्रसाद इति संनिहितविद्वत्परामर्शस्त त्राऽऽ--- संघ- २ ग.ट. 'का' | २ क. ग. ङ. ट. दि ३ क ख व ङ. च. ञ. ठ इ. ढ ण. 'ति । तत्सत्यं । ४ ग. ठ. सुप्तीति । ५ञ ते संप | ६ क. ख. ॰शेषः ब्युळे ।