पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ आनन्द गिरिकृ तटीका संवलितशांकरभाष्यसमेता-८ अष्टमाध्याये- संयते इव ह्येतेन यमा लक्ष्येते | ब्रह्मनामाक्षरस्यापीदममृतत्वादिधर्मवस्वं महा- भाग्यं किमुत नामवत इत्युपास्यत्वाय स्तूयते । ब्रह्मनामनिर्वचनेनैव नामवतो वेत्तैवंवित् | अहरहर्ता एवंवित्स्वर्ग लोकमेतीत्युक्तार्थम् ॥ ५ ॥ इत्यष्टमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ - - उपास्यस्तुत्यर्थं नामोक्त्वा तादर्थेनैव नामाक्षराणि प्रस्तौति – तानीति । तानि कानीत्यपेक्षायामाह--एतानीति । कथं तकार इत्युच्यते ईकारस्यापि तत्र भावा- दिल्याशङ्कयाऽऽहै— ईकार इति । तत्र हेतुमाह - हस्त्रेनेति । दीर्घमीकारमुद्दिश्य ह्रस्वं पुनरनुवदन्नत्रिबक्षितत्त्रमेव नामाक्षरेषु तस्य सूचयतीत्यर्थः । त्रयाणामक्षरराणामबान्तरभेदं दर्शयति--तेषामिति । निर्धारणे पष्ठी । वर्णविभागानन्तर्थमथशब्दार्थः । तकारस्या- क्षरसामान्यान्मर्त्यत्वम् । कथुमक्षरे पूर्वे यमित्यक्षरेण प्रयोक्ता नियमयतत्याकाङ्क्षायां नियमनस्वाभाग्दैनेत्याह – आत्मेति । यमित्यक्षरस्य नियमनस्वाभाव्यमेव साधयति — यद्यस्मादिति | तस्य तत्वभावत्वेऽनुभवमनुकूलयति — संयते इवेति | यमा यमित्य क्षरेणत्यर्थः । तस्य पूर्वाभ्यामुपरिष्टाद्भाविःवं तन्नियामकत्वे हेतुरिति मत्वाऽऽ — एतेनेति । लक्ष्येते पूर्वै अक्षरे इति शेषः । ब्रह्मणः सत्यमिति नाम तस्य यन्निर्वचनं कृतं तस्य प्रयोजनमाह -- ब्रह्मेति | फलवाकवस्थमेवंविपद् व्याकरोति -- एवमिति | व. क्यं तु न व्याख्येयं प्रागेत्र व्याख्यातत्यादिव्याह -- अहरिति ।। ५ ।। इत्यष्टमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथाष्टमाध्यायस्य चतुर्थः खण्डः ) अथ य आत्मा स सेतुर्विधृतिरेषां लोकाना- मसंभेदाय नैत ५ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृत सबै पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥ अथ य आत्मेति । उक्तलक्षणो यः संप्रसादस्तस्य स्वरूपं वक्ष्यमाणै- रुक्तैरनुक्तैच गुणैः पुनः स्तुयते ब्रह्मचर्य साधनसंबन्धार्थम् । य एष १ ख. ञ. ह्यनेन । २ क. ठ. "ने ना' | ३ क. ग. छ. उ. ण त इका° | ४ क. ग.ट.° इ इका° । ५ ख. छ. ञ. “ह । अनेने' । ६ ख. घ. ङ. च. ञ. उ. ड ढ ण. आत्मोक । ७ व. एवं । ०