पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः ४ J छान्दोग्योपनिषत् । ४५५ - यथोक्तलक्षण आत्मा स सेतुरिव सेतुः । विधृतिर्विधरणः । अनेन हि सर्वे जगद्वर्णाश्रमादिक्रियाकारकफलादि भेदनियमैः कर्तुरनुरूपं विदधता विधू- तम् । अँश्रियमाणं हीश्वरेणेढं विश्वं विनश्येद्यतस्तस्मात्स सेतुर्विधतिः । किमर्थ स सेतुरित्याह-- एवं भूरादीनां लोकानां कर्तृकर्मफलाश्रयाणामसभेदाया- विदारणायाविनाशायेत्येतत् । किंविशिष्टचासौ संतुरित्याह – नैतम् । सेतुमा- स्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः । यथाऽन्ये संसा- रिणः कालेनाहोरात्रादिलक्षणेन परिच्छेद्या न तथाऽयं कालपरिच्छेद्य इत्य भिप्रायः । यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तत इति श्रुत्यन्तरात् । अत एवनं न जरा तरति न प्राप्नोति । तथा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सुकृ- तदुष्कृते धर्माधर्मौ । माप्तिरत्र तरणशब्देनाभिप्रेता नातिक्रमणम् । कारणं ह्यात्मा । न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण । अहोरात्रादि च सर्व सतः कार्यम् । अन्येन ह्यन्यस्य प्राप्तिरतिक्रमणं वा क्रियेत | न्तु तेनैव तस्य | न हि घटेन मृत्प्राप्यतेऽतिक्रम्यते वा यद्यपि पूर्व य आत्माऽपउतपाप्मेत्यादिना पाप्मादिप्रतिषेध उक्त एव तथाऽपीहायं विशेषो न तरतीति मासिविषयत्वं प्रति. षिध्यते । तत्राविशेषेण जराद्यभावमात्रमुक्तम् | अहोरात्राद्या उक्ता अनुक्ताश्चान्ये सर्वे पाप्मान उच्यन्तेऽतोऽस्मादात्मनः सेतोर्निवर्तन्तेऽप्राप्यैवेत्यर्थः । ह्येष ब्रह्मैव लोको ब्रह्मलोक उक्तः ॥ १ ॥ अपहतपाप्मा Mayor वाक्यान्तरमादत्ते-—अथेति । तस्य तात्पर्यमाह -- उक्तलक्षण इति । प्रकारान्त- रेण स्तुतिप्रारम्भार्थो वाक्यस्थोऽथशब्दः । किमिति स्तुतिरित्यपेक्षायां स्तुये ब्रह्मण्या- धारे ब्रह्मचर्याख्यस्य साधनस्य संबन्धविधानार्थमित्याह – ब्रह्मचर्येति । यथा मृदादि- मयः सेतुर्व्यवरथ हेतुरस्येदं क्षेत्रमिति तथाऽयमपि व्यवस्थ हेतुरित्याह– सेतुरिवेति । सेतुत्वं साधयति—विधृतिरिति । विधारकत्वमुपपादयति- अनेनेति । वर्णाश्रमा- दीत्यादिशब्दो वयोवस्थाविषयः । फलादीत्यादिशब्दस्तु तदवान्तरजातीय विषयः । कर्त्रनु- रूपक्रिय।दिभेदविषयनियमैः सह वर्णादि व्यवस्थापयता परमेश्वरेण सर्वं जगद्विवृतमिति संबन्धः । अन्वयमुखेनोत्तमेव व्यतिरेकमुखेनाऽऽ (णाss ) ह --अध्रियमाणं हीति । उक्तमेवार्थं प्रश्नपूर्धकं विशदयति – किमर्थमित्यादिना । नैतमिति प्रतीकग्रहणं यत्त द्वय।चष्टे—सेतुमित्यादिना । तदेव वैधर्म्यदृष्टान्तेन स्पष्ट – यत्यादिना । - १ घ. ङ. च. उ. ड. ढ. तेन । २ ठ ढ. कनु । ३ ठ. अविधि । ४ घ. च. ‘रादिला’ । ५ ख. ञ. ड ढ ण. नैनं । ६ क. ग. च. ट. ङ. ड. "नेतु शो° । ७ ख. ञ ण. मित्यथेति । ग. व. णं तया । ९ ख. छञ. ण. येति । प' |