पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ आनन्दगिरिकृतटी कासवलितशांकरभाष्यसमेता- [८ अष्टमा ध्याये परैमात्मनो न कालपरिच्छेद्यतेत्यत्राऽऽथर्वणश्रुतिं प्रमाणपति – यस्मादिति । ततैरतीति तरतेरतिक्रमणार्थो नाऽऽत्मनि संभवतीत्यत्र हेतुमाह -- कारणं हीति । कार्यस्य कारणा- तिक्रमणं मा भूदहोरात्रादेस्त्वात्मातिक्रमणं किं न स्यादित्याशङ्कयाऽऽह - अहोरात्रादि चेति । तरतेरतिक्रमणार्थत्वमङ्गीकृत्यापि निषेधे हेतुमाह -- अन्येनेति । तरतिवाक्यस्या- पहतपाप्मादिवाक्पेन पौनरुक्त्यमाशङ्कय परिहरति-- यद्यपीति । विशेषणानामानन्त्या- प्रत्येकं प्रतिषेधवचनासंभवमभिनेत्याऽऽह - अहोरात्राद्या हीति | पाप्मकार्याणामात्मा- नमप्राप्चैव निवृत्तौ हेतुमाह--अपहतेति ॥ १ ॥ तस्माद्वा एतर सेतुं वीर्वाsन्धः सन्ननन्धो भवति विद्धः सन्नविद्रो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एत सेपि नक्तमहरेवामिनिष्प यते सातो ह्येष ब्रह्मलोकः ॥ २ ॥ PEIP 3 यस्माच्च पाप्मकार्यमान्ध्यादि शरीरवतः स्थान त्वशरीरस्य तस्माद्वा एतमा- त्मानं सेतुं तीर्त्वा प्राप्यानन्धो भवति देहवस्त्रे पूर्वमन्थोऽपि सन् | तथा विद्धः सन्देहवत्त्वे स देहवियोगे सेतुं प्राप्याविद्धो भवति । तथोपतापी रोगापताप वान्सन्ननुपतापी भवति । किंच यस्मादहोरात्रे न स्तः सेतौ तस्माद्वा एतं सेतुं तीर्खा माप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते । विज्ञप्त्यात्म- ज्योतिःस्वरूपमहरिवाहः सदैकरूपः संपत इत्यर्थ: । सद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेणैष ब्रह्मलोकः ॥ २ ॥ HUGH फलितमाह - यस्मादिति । "यथोक्तसेतु प्राप्तौ वयाऽऽह——देहवच इति । FIFFE स्वाभाविकमस्या नर्थत्वमित्याश- दुःखादिसंबन्धी । इतश्चाऽऽत्मसेतोरस्ति महाभा- - गधेयत्वमित्याह – किंचेति । कथं सर्वमपि तमोरूपमहरेव विदुषः स्यान्नहि विद्ययाऽपि विरुद्धोऽर्थः सिव्यतीत्याशङ्कयाऽऽह — विज्ञप्तीति । तत्र हेतुमाह - सकृदिति । ब्रह्म- लक्षणेोऽवेद्यो लोकः स्वप्रकाशचिदेकतानो यतोऽवतिष्ठतेऽतस्तद्रूपत्वाद्विदुषो यथोक्तरू- पत्वमविरुद्वमित्यर्थः ॥ २ ॥ तय एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति १ ग, ट. रस्याऽऽत्म' | १ढ तरते' | ३ क. ण. 'वेदे' ।