पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः ५ ] अन्दोग्योपनिषत् । तेषामेवैष ब्रह्मलोकस्तेषा सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥ इत्यष्टमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ तत्तत्रैवं सत्येतं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्रीविषयतृष्णा त्यागेन शास्त्रा- चार्योपदेशमनुविन्दन्ति स्वात्मसंवेद्यत्तामापादयन्ति ये तेषामेव ब्रह्मचर्य साधन- चतां ब्रह्मविदामेष ब्रह्मलोकः, नान्येषां स्त्रीविषयसंपर्कजाततृष्णानां ब्रह्मविदा मपीत्यर्थः । तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम् । तस्मात्परैममेत त्साधनं ब्रह्मचर्य ब्रह्मविदामित्यभिप्रायः ॥ ३ ॥ इत्यष्टमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ ४५७ यथोक्तरीत्या व्यवस्थिते सत्येतत्फलं विद्यावत्त्वेन केषां सिध्यतीत्याश' ङ्कयाऽऽह—तत्रेति । ब्रह्मचर्यचतां विद्याद्वारा ब्रह्माख्यो लोकः फलतीव्यर्थः । तेषामेवे- त्येबकारद्योतितमर्थमाह–नान्येषामिति । ब्रह्मविदामपति वाङ्मात्रब्रह्मवित्वमुध्यते । तेषां ब्रह्मचर्यवतां ब्रह्मविदामिति यावत् । ब्रह्मचर्यसाधनवतामेव ब्रह्मविश्वेन ब्रह्माख्यो टोको भवतीति स्थिते फ. लतमाह – तस्मादिति । साधनं ब्रह्मविद्यायामिति शेषः । ब्रह्मविदामिति भाविनी वृत्तिमाश्रित्योक्तम् ॥ ३ ॥ इत्यष्टमाध्यायस्य चतुर्थः खण्डः ।। ४ ।। 7792 19S (अथाष्टमाध्यायस्प पञ्चमः खण्डः । ) य आत्मा सेतुत्वादिगुणैः स्तुतस्तत्माप्तये ज्ञानसहकारिसाधनानन्तरं ब्रह्म चर्याख्यं विधातव्यमित्याह । यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थम् - अथ ययज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेव।ऽऽत्मानमनुवि- न्दते ॥ १ ॥ अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुपार्थसाधनं कथा शिष्टास्तद्ब्रह्मच र्यमेव । यज्ञस्यापि यत्फलं तह्मचर्यवाभतेऽतो यज्ञोऽपि ब्रह्मचर्यमेवेति प्रति १ क. ग. ङ.. ट. उ. ढ. तत्रैवं । २ ख. घ. ङ.. च. ञ. ड. ण. रमे' | ३ क. ग. र "त्मा स से° । ४ ख. ङ. ञ. ड, ढ, ते ततो । ५८