पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतौका संचलितशांकरभाष्यसमेता- [ ८ अष्टमाध्याये- मभुविमितं मण्डपमिति वाक्यशेषः ॥ ३ ॥ उपवासपरायणत्वमनाशकायनं तत्कथं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्कयाऽऽ३ -- यमात्मान मिति । अरण्यायनमरव्यवासस्तकथा ब्रह्मचर्यान्तर्भूतमित्याशङ्कयाऽऽह - अरण्यशब्द- योरिति । विस्तरेष्णोक्तमर्थ, संक्षिप्याऽऽह—यो ज्ञानादित्यादिना । यो ब्रह्मचर्ये • गाऽऽत्मनो ज्ञानादात्मानं विन्दते स ब्रह्मलोकं लभते तस्माद्यज्ञो ब्रह्मचर्यमिति योजना | आदिशब्देन स्त्रस्यः परमपुरुषार्थसावनत्वं गृह्यते ॥ ३ ॥ नय एवैतावरं च ण्यं चार्णको ब्रह्मलोके ब्रह्मचर्येणा- नुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषा सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥ 4. इत्यष्टमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ तत्तत्र ब्रह्मलोक एतावर्णवों यावरण्याख्याबुक्तौ ब्रह्मचर्येण साधने मानुविन्दन्ति ये तेषामेवैष यो व्याख्यातो ब्रह्मलोकस्तेषां च ब्रह्मचर्य साधनवतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति । नान्येपामब्रह्म चर्यपराणां बाह्यविषयासक्त बुद्धीनां कदाचिदपीत्यर्थः । नन्वत्र त्वमि न्द्रस्त्वं यमस्त्वं वरुण इत्यादिभिर्यथा कञ्चित्स्तूयते महाई एवमिष्टा- दिभिः शब्दैर्न स्त्र्यादिविषय तृष्णानिवृत्तिमात्रं स्तुत्य कि तहिँ ज्ञानस्य मोक्षसाधनत्वात्तदेवेष्टादिभिः स्तूयत इति केचित् । न । स्वयादिबाह्यविषय- तृष्णापहृतचित्तानां प्रत्यगात्मविवेकविज्ञानानुपपत्तेः । “ पराचि खानि व्यतॄण- स्वयंभूस्तस्मात्परा पश्यति नान्तरात्मन् इत्यादिश्रुतिस्मृतिशतेभ्यः । । ज्ञानसहकारिकारण स्यादिविषय तृष्णानिवृत्तिसाधनं विधातव्यमेवेति युक्तैव तत्स्तुतिः । ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं रास्यते । सत्यं गस्यते । न विह ब्रह्मलोकं प्रति यज्ञादीनां साधनत्वमभिप्रेत्य यज्ञादिभिर्ब्रह्मचर्य स्तूयते किं तर्हि तेषां प्रसिद्धं पुरुषार्थसाधनत्वमपेक्ष्य | यथेन्द्रादिभी राजा न तु यत्रेन्द्रादीनां व्यापारस्तत्रैव राज्ञ इति तद्वत् । ब्रह्मचर्यस्य स्तुतत्वात्तद्विषयं विधिमुक्त्वा तत्सहकृत विद्यासाध्यफलं कथयति-- 4. १ क. ग. ङ. ट, ड. ढ. २. ड. च. 'दिव' | ३ ख. ग. व. ङ.. च. अ. द, ट्, ढ. द. प. ॰पह्त' | ४ ग. ट. ठ. नुय । ५. सिद्धपु | ६ ग. द. व चरा |