पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

३८ _ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- तत्वे छन्दसां छन्दस्वप्रसिद्धिप्रकारमभिनयति-तत्तस्मादिति ॥ २॥ तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुपि । ते नु वित्त्वोर्वा ऋचः साम्नो यजुषः स्वरभेव प्राविशन् ॥ ३ ॥ - तास्तत्र देवान्कर्मपरान्मृत्युर्यथा लोके मत्स्यघातकों मत्स्यमुदके नातिग. म्भीरे परिपश्ये द्वडिशोदक.स्रावोपायसाध्यं मन्यमान एवं पर्यपश्यदृष्टवान्मृत्युः कर्मक्षयोपायेन साध्यान्देवान्भेन इत्यर्थः । कासो देवान्ददर्शेत्युच्यते-ऋषि साम्रि यजुषि । ऋग्यजुःसामसंवन्धिकर्मणीत्यर्थः । ते नु देवा वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तो मृत्योश्चिकीर्षितं विदितवन्तः । विदित्वा च ते ॐा व्यावृत्ताः कर्मभ्य ऋचः साम्नो यजुष ऋग्यजुःसामसंबद्धाकर्मणोऽभ्यु. स्थायेत्यर्थः । तेन कर्मणा मृत्युभयापगमं प्रति निराशास्तदपास्यामृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः । ओंकारोपासनपराः संवृत्ताः । एवशब्दोऽवधारणार्थः सन्समुच्चयप्रतिषेधार्थः । तदुपासनपराः संवत्ता इत्यर्थः ॥ ३ ॥ कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्ते याह-तानिति । तत्रेति वैदिककर्मप्रारम्भोक्तिः । उशब्दोऽप्यर्थः । यथोक्तकर्मपरानपि तान्मृत्युः पर्यपश्यदिति संबन्धः । कर्मणां मृत्युपदगोचरत्वं दृष्टान्तेनाऽऽह-यथेति । दार्टन्तिकभागस्य विवक्षितमई संगृह्णाति-मृत्युरिति । दान्तिके क्षुद्रोदकस्थानीयं किं स्यादिति प्रश्नपूर्वकं दर्शयतिकासावित्यादिना । ऋगादीनां नित्य वेन क्षयाभावान्न क्षुद्रोदकस्थानीयतेत्याशङ्कय विवक्षितमर्थमाह-ऋगिति । कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धति भावः । मृत्युपरिहारोपायमुपदिशति-ते नु देवा इत्यादिना । कर्मभ्यः सकाशादूर्वा व्यावृत्ता इत्यर्थः । सर्वकर्मसंग्रहार्थं कर्मभ्य इति बहुवचनम् । अवैदिककर्मत्यागस्य कर्मिष्वपि सिद्धत्वाद्वैदिककर्मत्यागार्थं विशिनष्टि-ऋच इति । कर्मत्यागमात्रास्कृतकृत्यताशङ्कां वारयति-तेनेति । किं तदक्षरं तदाह-ॐकारोति ॥३॥ १ क. ग. ट. 'पायसा । २ ग. ध. ङ. च. ट. ट. ड. ते दे । ३ क. तदूर्ध्वाः । १ ङ. ड. द. ऊर्ध्वाः क । ५ . ड. द. मण इत्य । ६ क. ख. ध. ड.. ञ. ट. ठ. ड, ढ. स्वर । ७ ख. ञ, 'र्थः ॥ ३ ॥ ८ क. ग. ठ. थं गृ । ९ ग. छ. उ. ते दे।