पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः ५] ईछान्दोग्योपनिषत् | त्तत्र ही (त्रे)ति | ब्रह्मचर्यस्यायल्पसाधनत्वान्महत स्तुतिर्युक्ता तद्ब्रह्मचर्येण ज्ञानमुप प्र्क्ष्य तदेव स्तूयत इति मतमुत्थापयति- नन्वति । तस्य क्षुद्रसाधनत्वमसिद्धं दुरनुष्ठेय- वात्तद्व्यतिरेकेण ज्ञानासंभवाच्चेत्युत्तरमाह - नेत्यादिना । विषयापहृतचित्तानां नराणां विवेकासंभवे प्रमाणमाह-परात | ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता 1 ब्रह्मचर्यस्योत्तमसाधनत्वे सिद्धे फलितह-ज्ञानेति । ब्रह्मलोकप्राप्तिसाधनस्य ब्रह्मचर्यस्य यज्ञ।दिभिः स्तुतत्वात्तेषःमपि तत्माप्तिसाधनत्वं श्रुत्याऽभिप्रेतमिति शङ्क–नन्विति । किं तेषां पुरुषार्थसाधनत्वं प्रस्तुतश्रुत्या प्रतीतं किं वा ब्रह्मलोकसःघनत्वमिति विकल्प्याऽऽ. द्यमङ्गी करोति–सत्यमिति । न द्वितीयो वाक्यभेदप्रसङ्गादियाह – न त्विति । कथं तर्हि यज्ञादिभिर्ब्रह्मचर्यस्तुतिस्तत्राऽऽह - किं तहीति । उक्तमर्थं दृष्टान्तेन स्पष्टयति- यथेति । स्वमिन्द्वरत्वं विष्णुरित्यादिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्येन्द्रादि- व्यापारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञादिभिर्ब्रह्मचर्यस्य स्तुतस्यापि नास्तिा तुल्यफलत्वमित्यर्थः । – 2 ११ । य इमेऽर्णवादयो ब्राह्मलौकिका: संकल्पजाच पित्रादयो भोगास्ते किं पार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्वदर्णववृक्षपूःस्वर्णमण्डपान्याहोस्क्न्मिा- नसप्रत्ययमात्राणीति | किंचातः, यदि पार्थिवा आप्याश्च स्थूलाः स्युर्हृद्याकाशे समाधानानुपपत्तिः । पुराणे च मनोमयानि ब्रह्मलोके शरीरादीनीति वाक्यं विरुध्येत “ अशोकमहिमम् " इत्याद्याथ श्रुतयः । ननु समुद्राः सरितः सरांसि वाप्य: कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तो ब्रह्माणमुपतिष्ठन्त इति मानसत्वे विरुध्येत् पुराणस्मृतिः । न । मूर्तिमन्त्रे प्रसिद्धरूपाणामेव तत्र गमनानु- पपत्तेः । तस्मात्प्रसिद्धमूर्तिव्यतिरेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिरु- पात्तं ब्रह्मलोकगन्तृ कल्पनीयम् | तुल्यायां च कल्पनायां यथाप्रसिद्धा एव मानस्य आकारवैत्यः पुंस्त्रयाद्या मूर्तयो युक्ताः कल्पयितुं मानसदेहानुरूप्पसंच- त्धोपपत्तेः । दृष्टा हि मानस्य एवाऽऽकारवत्यः पुंरुयाद्या मूर्तयः स्वप्ने । ब्रह्मलोकस्थान्पदार्थान्निर्णैतुं विचारमवतारयन्नादौ तद्विषयमाह - य इम इति । तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदुत्थितमकारमाह- ते मिति | पक्षान्तरं स्वदृष्टान्तबशादर्श यति- आहोस्विदिति । करिमन्पक्षे को लाभ: को वा दोषः, दोषदर्शनान्मानसत्वेन सौक्ष्म्ये च पुराणानुग्रहसंभवात्ते मानसा एवेयाह -- यदीति । न केवलं तेषां स्थौल्ये सत्युभे अस्मिन्नित्यादिश्रुत्या पुराणस्मृत्या च विरोधः किं शोकं संतापवर्जित महिमं शीतस्पर्शशून्यं ब्रह्मलोकमुपयन्ती त्या द्याश्च श्रुतयो ब्रह्मलोकं निरूपयन्त्यस्तत्रत्यानामर्थानां १ य. तत्र | २ कु. ग. घ. ङ. च. द. उ. ड. द. त्य' | ३. 'थितिम