पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ आनन्द गिरिकृत टीका संवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्यायें - स्थैल्यै विरुध्येरन् । स्थूलानां पदार्थानां तत्र सच्चे शीतस्पर्शादिर वर्जनीयः बादित्याह- अशोकमिति । ब्रह्मलौकिक पदार्थानां मानसत्वे पुराणस्मृत्यन्तरविरोधं शङ्कते-नन्विति । किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरूपान्तरेणेति विक ल्प्याऽऽद्यं दूषयति - न मूर्तिमन्त्र इति । उभयत्रानुपलम्भप्रसङ्गादित्यर्थः । प्रथमपक्षा- यंगे द्वितीयं पक्षं परिशिष्टमा चष्टे - तस्मादिति । अस्तु द्वितीयो विकल्पः का नो हानि- रित्याशङ्कय ब्रह्मलोके मानसेन देहेन मानसानामेव सागरादीनां मानसरूपेण सह संबन्धों • पात्तेर्मानस्य एव मूर्तयस्तेषां ब्रह्मलोकस्थाः कल्पयितुं युक्ता इत्याह — तुल्यायां चेति । तर्हि मनोरथकल्पितवदतिचञ्चलत्वाद्भोगयोग्याकारत्वं सागरादीनां न स्यादित्याशङ्कयाऽऽह्- दृष्टीद । 2120 ननु ता अनुता एव । त इमे सत्याः कामा इति श्रुतिस्तथा सति विरुध्येत 1 नं । मानसैप्रत्ययस्य संत्त्वोपपत्तेः | मानसा हि प्रत्ययाः स्त्रीपुरुषाद्याकाराः स्वप्मे दृश्यन्ते । ननु जाग्रद्वासनारूपाः स्त्रमदृश्या न तु तत्र रूपादयः स्वप्मे विद्यन्ते । अत्यल्पमिदमुच्यते । जाग्रद्विपया अपि मानसप्रत्ययाभिनिर्वृत्ता एव सदीक्षाभिनिर्वृत्ततेज।बन्नमयत्वाज्जाग्रद्विषयाणाम् । संकल्पमूला हि लोका इति चोक्तम् " समवलपतां द्यावापृथिवी " इत्यत्र | सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिच " यथा वा अरा नामौ " इत्यादिनोच्यते । तस्मान्मानसानां बाह्यानां च विषयाणामितरेतर कार्यकारणत्वमिष्यत एत्र वीजा- क़ुरवत् । यद्यपि बाह्या एन मानसा मानसा एव च बाह्या नानृतत्वं तेषां कदाचिदपि स्वात्माने भवति । 6" स्वप्नतुल्यध्ये मिथ्यात्वप्रसक्तिरिति शङ्कते- नन्विति । प्रजङ्गस्येष्टत्वमाशङ्कय श्रुति- विरोधमःह —त इम इति । ये सप्ने दृष्टास्ते न सन्ति न तु दृष्ट। इति दर्शनं बाध्यते तथा च स्वामसंवेदनस्य सत्यत्वमिष्टं तथैव ब्राह्मलौकिकानां पदार्थानाम् | मानस्य इति दृष्टान्तं विवृणोति-मानसा हीति । जागरिते संविदतिरिक्ताः सन्ति पदार्थास्तद्वासन रू. - - पास्ते स मे भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते- नन्विति । जागरितस्यापि संविद्विवर्तत्वान्न पृथगस्ति सत्वमित्युत्तरमाह - अत्यल्पमिति । भूमविद्यालोचनायामपि जाग्रद्विषयाणां संविद्विवर्तत्वं सेत्स्पतीत्याह - संकल्पमूला हीति । इतश्च जामद्वेष याणां संविद्धिवामित्याह - सर्वश्रुतिषु चेति । ननु कुलाको घटं चिकीर्षुर्मन सि १ ङ. ढ. न मनऩः स ° । २ ठ. "सत्यप्र' । ३ ख. व. च. ञ सत्यत्वोप' । ४ ब. चटड. दुयो वि । ५ ख. छ. ञ. ण. (त्मत्यं ।