पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ आनन्द गिरिकृतकास वलितशांकरभाष्यसमेता-[८ अष्टमाध्याये संविदि विषयाणामत्यन्तासत्वमित्यर्थः । कथं तर्हि वाचारम्भणश्रुतिरित्याशङ्कयाऽऽह विशेषेति । त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्येत्युक्तमयुक्तं तेष्वपि विशे- बाकारस्य सत्त्वादित्याशङ्कयाऽऽह - तान्यपीति । कथं तर्हि तेषु सत्यपदं प्रयुक्तमि क्याशङ्कयाऽऽह—स्वत इति । तर्हि तत्सत्यमित्येतावत्प्रयोक्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह – प्रागिति । प्रकृतमुपसंहरति – तस्मादिति । प्रथमपक्षवद् द्वितीयपक्षे दोषाभाचादिति यावत् । यद्यहिक विषयवाह्मलौकिका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनैतत्परित्यागेन तत्कामिनां विद्याविधानं तत्राऽऽह——वाह्येति । जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फलश्रुतेरि- 'त्यध्याहारः । ननु तेषामविद्यादशा यामर्थक्रियाकारित्वरूपसत्यत्व संभवेऽपि कुतो विद्याबस्थाय सत्यत्वमित्त्याशङ्कयाऽऽह–२ -सत्सत्येति । यथा रज्ज्यांकलितसर्पादयो रज्जुतत्त्वबोधे तदातामेचाऽऽपद्यन्ते चित्रेचनात्तथा सर्वेऽपि विषया विद्याबस्थायामन्वयव्यतिरेकाभ्यां परिहारायासन्मात्रत्वमेव प्राप्नुचन्तीति तत्सत्यत्वमविरुद्धमित्यर्थः ॥ ४ ॥ "इत्यष्टाध्यायस्य पञ्चमः खण्डः ॥ ५॥ 40 125 31.5.61 (अथाष्टमाध्यायस्य षष्ठः खण्डः । ) यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसंपन्न- स्यक्तबाह्यविषयानृततृष्णः सन्नुास्ते तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते--

अथ या एता हृदयस्य नाट्यस्ताः पिङ्गल- स्याणिम्नस्तिष्ठन्ति शुक्रस्य नीलस्य पीतस्य लोहितस्पेत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एप नील एप पीत एष लोहितः ॥ १ ॥ of अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य संबन्धिन्यो नाड्यो हृदयमांसपिण्डात्सर्वतो विनिःसृता आदित्यमण्डलादिव रश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्ट स्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णा- स्तदाकारा एव तिष्ठन्ति वर्तन्त इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य १ ग. °न्ते तथा । २ ग. ट. 'काभावप' । ३५ व. ङ. च. ट ठ ड ढ, 'लि ख ।