पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टः खण्ड: ६ ] छान्दोग्योपनिषत् | चरसस्य पूर्णा इति सर्वत्राध्याहार्यम् । सौरेण तेजसा पित्ताख्येन पाका- भिनिर्वृत्तेन कफेनाल्पेन संपर्कात्पिङ्गलं भवति सौरं तेजः पित्ताख्यम् | तदेव च वातभूयस्त्वानीलं भवति । तदेव च कफ यस्त्वाच्छुलम् । कफेन समतायां पीतम् । शोणितबाहुल्न लोहितम् । वैद्यकाद्वा वर्णविशेषां अन्वेष्टव्याः कथं भवन्तीति । श्रुतिस्त्वाहाऽऽदित्य चन्षादेव तत्तेजसो नाडी वनुगतस्यैते वर्णविशेषा इति । कथम् । असो वा आदित्यः पिङ्गलो वर्णत एष आदित्य: शुक्लोऽप्येष नील एष पीत एप लोहित आदित्य एव ।। १ । संगुणबिंद्या फलस्वरूपमित्थमुपपाद्य तत्प्राप्तये गतिक्तव्येति नाडीखण्डमवतारयति-- यस्त्विति । यथोक्तो गुणः सत्यकामत्कादिः । ब्रह्मचर्यादीत्यादिशब्दः शमदमादि. संग्रहार्थः । तमेवाऽऽदिशब्दार्थ स्पष्टयति – त्यक्तेति । अधिकारिणः सफलोपास्तिविध्या- नन्दर्थमथशब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छन्दोऽन्नरस विषयः । शुक्ल- स्येत्यादिषष्ठौ पूर्ववत् । श्रुतावित्रिशब्दोऽपाहारद्योतनार्थः । कथं पुनरन्नरसा विचिनो वर्णविशेषः सिव्यतीत्याशङ्कयाऽऽह– सौरेणेति । यत्पित्ताख्यं सौरं तेजस्तेन पाकोऽशितस्य पीतस्य च जायते सेनाभिनिवृत्तेनाल्पेन कुफेन संपर्कात्तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलं तेन संपर्काद्रिस्य नाडीनां च जायते पिङ्गलभियर्थः । तदेव च पित्ताख्यं सौरं तेजो यथोक्तपःकाभिनिर्वृत्तेन प्रभुतेन बातेन संबन्धाद्र्यस्वाद्भवति नीलं तेन च संपर्कादिन्नरसस्य नाडीनां च जायते गेल्यमित्याह —तदेवेति । प्रकृतमेव पित्ताख्यं सैौरं तेजो यश्योक्तपाकवशाद मिनिर्वृत्तकफस्य स्वसंबन्धिनो भूयस्त्राद्भवति शुलं तेन च संपर्कादिन्नरसस्य नाडीनां च शैकल्यं भवतीत्याह -- तदेव चेति । उक्तप/का- भिनिर्वृत्तेन कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्संबन्धि पतिं जायते तत्संबन्धाच्चान्नरसस्य च नाडीनां च पीतःवं भवतीत्याह --कफेनोति । यदा तु यथो. तपाकार्मिनिष्पन्नं शोणितं चहुलं भवति तदा तस्त्र नाडीनां च लैहित्यं भवतीत्याह-- शोणितेति । पक्षान्तरमाह - - वैद्यकाद्वेति । अन्वेषण प्रकरमाह -- कथमिति । नाभेरूवं हृदयादधस्तादामाशयमाचक्षते । तद्गतं तेजः सरं पित्तमित्युच्यते । तच्चान्नरसंस्य धात्वन्तर. सहकारिवशाद्वर्णविशेषे कारणम् । " अमाशयगतं पित्तं रञ्जकं रसरञ्जनात् " इत्यादि- चचनादित्यर्थः। कथं तर्हि पिङ्गलस्थेत्याद्या श्रुतिरित्याशङ्कयाऽऽह - - श्रुतिस्त्विति । ढकमर्थमाकाङ्क्षाद्वारा स्कोरयति- - कथमित्यादिना | आदित्यस्य पैङ्गल्पादयो वर्ण- विशेषाः शास्त्रत्रामाण्यादेव प्रत्येतव्याः ॥ १ ॥ — १ व. ङ.. ट. ढ. २ ठ. 'ते पैल्यमि' । श्री राम शेव आश्रम