पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [८ अष्टभाध्याये - तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामं चैवमेवैता आदित्यस्य रश्मय उभौ लोको गच्छन्तीमं चामुं चामुष्मादादित्यात्मतायन्ते ता आसु नाडीषु सप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्त्रादित्ये सृप्ताः ॥ २ ॥ तस्याध्यात्मं नाडीभिः कथं संबन्ध इत्यत्र दृष्टान्तमाह — तत्तत्र यथा लोके महान्विस्तीर्णः पन्था महापथ आततो व्याप्त उभौ ग्रामों गच्छतोमं च संनिहि तममुं च विप्रकृष्टं दूरस्थमेवं यथाँ दृष्टान्तो महापथ उभौ ग्रामौ प्रविष्ट एवमेवैता आदित्यस्य रश्मय उभौ लोकॉवमुं चाऽऽदित्य मण्डलमिमं च पुरुषं गच्छन्त्य॒भयत्र प्रविष्टाः | यथा महापथः । कथम् | अमुष्मादादित्यमण्ड- लात्प्रतायन्ते संतता भवन्ति । ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सप्ता बताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः संता नभूताः सत्यस्तेऽमुष्मिन् | रश्मीनामुभयलिङ्गत्वात्त इत्युच्यन्ते ॥ २ ॥ आदियस्य तेजसो नाडीध्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीयुक्तं तदेव प्रश्न- द्वारा दृष्ट.न्तावष्टम्भेन स्पष्टपति - तस्येत्यादिना । उभयत्राऽऽदित्यमण्डले पुरुषे चैत्यर्थः । तत्र पूर्वोक्कमेव दृष्टान्तमनुवदति -- यथेति । उभौ ग्रामौ महापथो यथा गच्छति तथोभयत्राऽऽदित्यस्य रश्मयः प्रविष्टा इत्यर्थः । तमेव प्रवेशं प्रश्नद्वारा प्रकट ति - कथमित्यादिना । कथं नाडीनां पिङ्गलादिवर्णत्वमित्याशङ्कय सौरण तेजसेत्यादिनोंक्तं स्मारयति——यथोक्तास्त्विति | अमुष्मिन्नादिले लृप्ता इति संबन्धः । कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्देशस्तत्राऽऽह- - रश्मीनामिति || २ || । E तयत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वयं न विजा- नात्यासु तदा नाडीषु सप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा संपन्नो भवति ॥ ३ ॥ १ ख. ञ. 'त्यर' । २ क. ख. ञ ट. पण ध्यत्मना । ३ क. 'था लोके दृ' । ख. घ. ञ. ण. °श्राऽयं दृ॰ । ४ ख. ग. ध च ञ ट ड ढ ण. 'त्यर' । - ख.. घ. ड. च. ञ ट ठ ड ढ ण. 'कवादि' | ६ ग. संपन्नः ।