पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः ६ ] छान्दोग्योपनिषत् | ४६७ तत्तत्रैवं सति यत्र यस्मिन्कौल एतत्स्वपनमयं जीवः सुप्तो भवति । स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त इति । उपसंहृतसर्थक रणवृत्तिरित्येतत् । अतो बाह्यविषयसंपर्कजनितकालण्याभावात्सम्यक् प्रसन्नः संप्रसन्नो भवति । अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नमत्ययं न विजानाति नानुभवती- त्यर्थः । यदैवं सुप्तो भवत्यास सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टो नाडीभिरिभूताभिर्हृदयाकाशं गतो भवतीत्यर्थः । न ह्यन्यत्र सत्संपत्तेः स्वप्नादर्शनमस्तीति सामर्थ्यान्नाडीवित सप्तमी तृतीयय परिणम्यते । तं सता संपन्नं न कञ्चनै न कश्चिदपि धर्माधर्मरूपः पप्ना स्पृशतीति स्वरूपावस्थितत्वा- त्तदाऽऽत्मनः । देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशंतीति नतु सत्संपन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्त्रष्टुमुत्सहते | अविषयत्वात् । अन्यो ह्यन्यस्य विषयो भवति न त्वन्यत्वं केनचित्कुतश्चिदपि सत्संपन्नस्य | स्वरूप- प्रच्यवनं त्यात्मनो जाग्रत्स्वनावस्थां प्रति गमनं वाह्यविषयप्रतिबोधोऽविद्या कामक र्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठ एव तदिहापि प्रत्येत- व्यम् । यदैवं सुप्तः सोरेण तेजस हि नाड्यन्तर्गतेन सर्वतः संपन्नो व्याप्तो भवति । अतो विशेषेण चक्षुरादिनाडीद्वारर्वाह्यविषयभोगायाप्रसृत नि करणा- न्यस्यं तदा भवन्ति । तस्मादयं करणानां निरोधात्स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम् ॥ ३ ॥ । – नाडीस्वरूपमुक्त्वा विज्ञानात्मस्वापाधिकरणत्वेन ताः स्तोतुमादौ स्वापं प्रस्तौति - तत्तत्रेति । सप्तम्यर्थमेव रफुटयति – एवं सतीति । नाडीस्वरूपे पूर्वोक्तरीत्या निरूपिते सतीत्यर्थः । एतत्स्वपनमिति क्रियाविशेषणम् । समस्त विशेषणस्यार्थवत्वमाह — स्वाप स्येति । दर्शनवृत्तिबददर्शनवृत्तिश्चेति द्विप्रकारत्वं स्वापस्थेष्टम् । तत्र दर्शनवृत्तेः स्त्र।पस्य व्यावृत्त्यर्थं समस्त इति विशेषणम् | तस्य संपिण्डितमर्थमाह - उपसंहृतेति । विशेष- णान्तरमुत्थाप्य व्याकरोति- -अत इति । उपसंहृतसर्थकरणत्वादिति यावत् । उक्तं विशेषणद्वयमुपजीव्य स्वप्नमित्यादि व्याचष्टे -- अत एवेति । नाडीषु प्रविष्टो भवतीति यदुक्तं तदयुक्तं य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेत इत्यङ्गीकारादित्याशङ्कयाऽऽह-- १० १ ग. घ. डं. च. उ. ढ ण. कालेऽयं । २. म्यवसंपन्न | ३ ६. च. ट. ढ० ६ घ. च. ट. नं. ° सन्नो | ४ ढ.. च. . 'याविप' । ५ ख. ङ. च. उ. ण. °न क° । शति । ७ घ ङ च. ट. ग. ठ ड ढ 'रूपात्प्रय' | ८ ख. ग. ङ च . ट °सा ना° । ९ च. ट. 'स्व पुरुषस्य त' । १० गट. तत्थ्युक्तं ।