पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ आनन्द गिरिकृत टीकासंवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्याये नाडीभिरिति । नाङीष्विति श्रुता सप्तमी कथं नाडीभिरिति तृतीयया व्याख्यायते तत्राऽऽह --न हीति । तदेति सुषुष्यवस्थोच्यते । तस्यामवस्थायां कर्माभावे कथं पुनरु त्थानमिल्याशङ्कचाऽऽह- देहेति । सुखदुःखानुभवाभावात्पाप्मासंस्पर्शोऽत्र विवक्षितो न तु कर्मभावादित्यर्थः । अविषयत्वं सावयति -- अन्यो हीति । सुषुप्ते स्वरूपावस्थस्य कथं प्रच्यवनमित्याशङ्कयाऽऽह – स्वरूपति । अविद्याकामकर्मणां बीजमनाद्यज्ञानं तस्याः ब्रह्मविद्याख्येनाग्निना न स्वापे दाहस्तचिमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति संबन्धः । तदेव व्याचष्टे – जाग्रदिति | कौटैक्प्रच्यवनमित्यपेक्षा यामाह - वाह्येति । एतच्च सति संपद्य न विदुरित्यादाबुदितमित्याह - इत्यवोचामेति । तेजसा हीति पाप्मास्पर्शे श्रौतो हेतुस्तं हेतुं व्याचष्टे—यदेति । तद्व्याप्तिकार्यमाह --अत इति । कार्यकरणसंस्पर्शामा बफलं दर्शयति – लस्मादिति ॥ ३ ॥ - अथ यत्रैत दवलिमानं नीतो भवति तमजित आसीना आहुर्जानासि मां जानासि मामिति स याबदस्मा- च्छरीरादनुकान्तो भवति तावज्जानाति ॥ ४ ॥ तत्रैवं सत्यथ यत्र यस्मिन्कालेऽवलिमानमबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कुशीभावमेतन्नयनं नीतः प्रापितो देवदत्तो भवति मुमूर्षर्यदा भवर्तांत्यर्थः । तमभितः सर्वतो वेष्टयित्वाऽऽसीना ज्ञातय आहुजा सिमां तक पुत्रं जानासि मां पितरं चेत्यादि । स मुमूर्षुर्यावदस्माच्छरीदनुत्क्रान्तोऽनिर्गतो भवति तावत्पुत्रादीजानाति ॥ ४ ॥ {-. नाडीरेवं स्तुत्वा ताभिरूर्ध्वगमनं प्रदर्शन मरणकालं प्रसञ्जयति--तत्रेति । तस्यै- बार्थमाह--एवं सतीति । नाडीनामुक्तरीत्या पाशस्ये सतीत्यर्थः । तामिरूर्ध्वगमन- दर्शनप्रारम्भार्थोऽथशब्दः । रोगादीत्यादिषदमागन्तुक सर्व निमित्तसंग्रहार्थम् । जरादीत्यादि- पदं तु नैसर्गिक सर्वनिमित्तद्योतनार्थमिति भेदः । एतन्नयनमिति क्रियाविशेषणम् ॥ ४ ॥ अथ यत्रैतदस्माच्छरीरादुकाम त्यथैतैरेव रश्मि - शिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते गट. दूग्गन । २ क. ग. व. ङ. ट. इं. ण. पत्यादि । ३. व. ङ. अ. क्षe ट. . त थ र्ध आक्रु ।