पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । स यावक्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥ षष्टः खण्डः ६ ] ४६९ अथ यत्र यदैतत्क्रियाविशेषणभित्यस्माच्छरीरादुत्क्रामाते । अथ तदैतैरेव यथोक्ताभी रश्मिभिरूर्ध्वमाक्रमते यथाकर्मजितं (त) लोकं प्रत्याविद्वान् | इतरस्तु विद्वान्यथोक्तसाधनसंपन्नः स ओमित्योंकारेणाऽऽत्मानं ध्यायन्यथापूर्व वा हुँव, उद्बो वा विद्वांश्चेदितरस्तिर्यङ्ङ्केत्यभिप्राय: | मीयते प्रमीयते गच्छतीत्यर्थः । स विद्वानुत्क्रमिष्यन्यावत्क्षिप्येन्मनो यावता कालेन मनसः क्षेप: स्यात्तावता कालेनाऽऽदित्यं गच्छति मामोति क्षिप्रं गच्छतीत्यर्थो न तु तावतैव कालेनेति विवक्षितम् । किमर्थमादित्यं गच्छतीत्युच्यते-- एतद्वै खलु मसिद्धं ब्रह्मलो कस्य द्वारं य आदित्यस्तेन द्वारभूतेन ब्रह्मलोकं गच्छतिन् । अतो विदुषां प्रपदनं प्रपर्धेते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् | निरोधनं निरोधोऽस्मादा- दित्यादविदुषां भवतीति निरोधः । सौरेण तेजसा देह एव निरुद्धाः सन्तो मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः । विष्वङ्ङन्या इति श्लोकात् ।। ५ ।। प्रारब्धकर्माबसानार्थोऽथशब्दः । एतदिति क्रियाविशेषणभेतदुत्क्रमणं यथा स्यात्तथेत्यर्थः । यथोक्ताभिर्नाíषु प्रसृत।भिरादित्य मण्डला दागतामिरिति यावत् । कर्मणा जितं वशीकृतं स्वात्मसंबन्धितामापादितं लोकमनतिक्रम्य तं प्रत्यविद्वान्केवल कर्मवान्गच्छतीत्यर्थः । दहरवि- द्यावतो गति दर्शयति — इतर स्त्विति । यथोक्तसाधनं दहरविज्ञानं तेन संपन्नो विशिष्ट इत्यर्थः । स ध्यायन्गच्छतीत्युत्तरत्र संबन्धः । यथापूर्वं स्वस्थावस्थायामिव मरणावस्थायाम- पीत्यर्थः । वा हेतिनिपातद्वयस्यावधारणरूपमर्थ कथयति — एवेति । उच्छन्दार्थमाह - ऊर्ध्वमिति | बाशब्देन द्योतितं विकल्पं दर्शयति — विद्वांश्चेदिति । यदि विद्वान्प्रमीयते तदोर्ध्वमेव गच्छति । यदि त्वविद्वान्प्रमीयते तदा तिर्यगेव गच्छतीति विभागः | विदुष- रत्यक्तदेहस्याऽऽदित्यप्राप्तावसन्तशैव्यं दर्शयितुमनन्तरवाक्यमादत्ते - स विद्वानिति । तद्व्याचष्टे – यावतेति । आदित्यप्राप्ती किं स्यादित्यत आह - अत इति । अविदुषामपि तर्हि प्राप्तानामादित्यं ततो निरुद्धानां पुनर्ब्रह्मलोकाप्राप्तिरित्याशङ्कयाऽऽह - सौरैति । देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्रमणमविदुषामित्यत्र लिङ्गं दर्शयति - विष्वङ्- - डिति ॥ ५ ॥ १. ग. ट. रुर्ध्व आक | २ . . कर्मार्जितं । ३ ख. घ. ङ. ञ. ढ. ढ. ननु ता । ४ क यन्ते ब° ।