पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्याये- तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका तयोर्ध्वमा यन्नमृतत्वमति विष्वन्श उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ६ ॥ इत्यष्टमाध्यायस्य षष्टः खण्डः ॥६॥ तदेतस्मिन्यथोक्तेऽर्थं एष श्लोको मन्त्रो भवति । शतं चैका चैकोत्तरशतं नाड्यो हृदयंस्य मांसपिण्डभूतस्य संबन्धिन्यः प्रधानतो भवन्ति । आनन्त्याद्दे- इनार्डानाम् । तासामेका मूर्धानमा भनिःसृत विनिर्गता तयोर्ध्वमायन्गच्छन्नमृत- त्वममृतभावमेति विष्वङ्नानागतय स्तिर्यग्विसर्पिण्य ऊर्ध्वगाश्चान्या नाड्यो भवन्ति संसारगमनद्वारभूतों नमृतत्वाय किं तत्क्रमण एवोत्क्रान्त्यर्थमेव भवन्तीत्यर्थः । द्विरभ्यासः प्रकरणसमाप्त्यर्थः ॥ ६ ॥ इत्यष्टमाध्यायस्य षष्टः खण्डः ॥ ६॥ यथोक्तोऽर्थो नाडीबिभागलक्षणः । प्रधानत इति विशेषणतात्पर्थमाह - आनन्त्यादिति । प्रकरणं नाडीविषयं दहरविद्याविषयं वा ॥ ६ ॥ इत्यष्टमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ( अथाटमाध्यायस्य सप्तमः खण्डः । ) 46 अथ य एप संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म " इत्युक्तम् । तत्र कोऽसौ संप्रसादः, कथं वा तस्याधिगमो यथा सोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुंपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । येनु स्वरूपेणाभिनिष्पद्यते स किल- क्षण आत्मा | संप्रसादस्य च देहसंवन्धीनि पररूपाणि ततो यदन्यत्कथं स्वरूपमित्येतेऽर्था वक्तव्यां इत्युत्तरो ग्रन्थ आरभ्यते । आखायिका तु विद्या- ग्रहणसंप्रदौनविधिप्रदर्शनार्थी विद्यास्तुत्यर्था चॅ राजसेवितं पानयमितिवत् । दहरबिंद्यायामुपास्यस्तुत्यर्थमुक्तमनुवदति -- अति । विवेकानन्तर्यमथशब्दार्थो १ घ. ङ. च. छ. ञ. ण. तानि । २ ख ङ. ञ. ठ. ढ ण ग. ट. ढ. °नि रू”। ४ ग. व. च. ट. 'दायवि' । ५ ख. ञ. ण वा °चासु° । ७ ख. छ. ञ. प. 'मुक्काम' 1 ता नाम । ३ क. ६ ख. छ. ञ. प.