पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

'चतुर्थः खण्डः ४] छान्दोग्योपनिषत् । - कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येत्युच्यते-- यदा वा ऋचमामोत्योमित्येवातिस्वरत्येव५ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥४॥ यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामेवं यजुः। एवं उ स्वरः। कोऽसौ, यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य यथागुणमेवामृता अभयाश्वाभवन्देवाः ॥४॥ • उदात्तादिरूपत्वाभावादक्षरस्य न स्वरशन्दत्वमित्याशङ्कय परिहरति-कथमित्यादिना। मचमाप्नोत्यध्ययनेन स्वाधीनां करोतीत्यर्थः । अतिस्वरत्यतिशयेनाऽऽदरधियोचारयतीति यावत् । ऋग्यजुःसाम्नां प्रत्येकमोकारोचारणद्वारेणैवाऽऽप्तिदर्शनादित्यतिशब्दार्थः । उश. ब्दोऽपिपर्यायः । संप्रतिपन्नस्वरवदिति दृष्टान्तार्थः । अमतमभयं तथाविधब्रह्मप्रतीकत्वादित्यर्थः । तत्प्रविश्य ब्रह्मबुद्धया तद्धयानं कृत्वेत्यर्थः ॥ ४ ॥ स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षर५ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवा. 'स्तदमृतो भवति ॥५॥ इति प्रथमाध्यायस्य चतुर्थः खण्डः ॥४॥ स योऽन्योऽपि देववदेवैतदक्षरमेवममृतमभयगुणं विद्वान्प्रणोति स्तीति । उपासनमेवात्र स्तुतिरभिप्रेता । स तथैवैतदेवाक्षरं स्वरममृतमभयं प्रविशति । तत्प्रविश्य च राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावन्न परस्य ब्रह्मणोऽन्तरङ्गवहिरङ्गताविशेषः । किं तर्हि यदमृता देवा येनामृतत्वेन यदमृता अभूवस्तेनैवामृतत्वेन विशिष्टस्तदमृतो भवति न न्यूनता नाप्यधिकताऽमृतत्वे इत्यर्थः ॥ ५॥ इति प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ भवतु देवानामेवमस्माकं तु किमायातमित्याशङ्कायाऽइ-स योऽन्योऽपीति । १ क. टा. प एव उ । म. उ. 'प एव स्व। २ ख. घ. ङ, च. अ. ठ. ड. ढ. तच्चाम। ३ क. मृताभ । ४ क. मेव बान । ५ ग, ट. ठ. 'त्वमित्य' ।