पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्ड: ७ ] छान्दोग्योपनिषत् | ४७१ व्याख्यातः । शरीरात्समुत्थानं तस्मिन्नहंममा भिमानत्यागः | स्वरूपं विशिनष्टि - एष इति । उत्तिकर्तृत्वमाचार्यस्य दर्शितमेव । प्राणो वा संप्रसादो विज्ञानामा वेति संशया- पृच्छति — तत्रेति । प्रकृतं वाक्यं सप्तम्यर्थः । तस्य च संप्रसादस्य परमात्मविषयं ज्ञानं केनोपायेन भवतीति प्रश्नान्तरमाह — कथं वेति । किं तस्य परमात्माधिगमेनेत्याश- ङ्कयाऽऽह-यथेति । तथा तस्याधिगमः कथमिति संबन्धः । अभिनिष्पद्यमानरूपश्चाऽऽत्मा सविशेषो निर्विशेषो वेति प्रश्नान्तरं करोति — येनेति । आत्मनो हि सच्चिदानन्दैकताना- दर्थान्तराणि रूपाणि दृश्यमानानि शररिसंबन्ध प्रयुक्तानि । तथा च ततः शरीरादुपाधैर्य दन्यत्तस्य स्वरूपं तत्कथं सर्वप्रमाणाप्रतिपन्नमस्तीति प्रश्नान्तरमाह - संप्रसादस्य चेति । एतेषां प्रश्नानामुत्तरत्वेनोत्तरग्रन्थमवतारयति — इत्येत इति । प्रजापतेरिन्द्रविरोरोचनयोश्च संवादरूपा याऽत्राऽऽख्यायिका दृश्यते सा किमर्थेत्याशङ्कयाऽऽह-आख्यायिका स्विति । शिष्यस्य विद्याया ग्रहणे गुरोस्तस्याः सम्यक्प्रदाने च यो विधिः श्रद्धालुवादिप्रकारस्तत्प्रद- र्शनार्थेति यावत् । यद्वा विद्याया ग्रहणं स्त्रीकरणं यत्र संप्रदाने तद्दानपात्रे शिष्ये दृश्यते तस्य विधिर्ब्रह्म’वर्यादिस्तःप्रदर्शनार्थोत्यर्थः । आख्यायिकायास्तात्पर्यान्तरमाह — विद्येति । प्रजापतिना प्रोक्ता देवरसुरैश्च प्रार्थितेन्द्रविरोचनभ्यां देवासुराधिपतिभ्यामायासेन महता प्रेप्सिता देवराजेन च कथंचित्प्राप्ता तस्मान्महार्हेयं विद्येति तस्याः स्तुत्यर्थाऽऽख्यायिके त्यर्थः । महद्भिरुपासितस्य महार्हत्व दृष्टान्तमाह - ~ राज सेवितमिति । य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽ- न्वेष्टव्यः स विजिज्ञासितव्यः सर्वाश्थ्य लोकाना- मोति सर्वाश्व कामान्यस्तमात्मानमनुविद्य विजा- नातीति ह प्रजापतिरुवाच ॥ १ ॥ य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिवत्सोऽपिपासः सत्य- कामः सत्यसंकल्पः । यस्योपासनायोपलब्ध्यर्थ हृदयपुण्डरीकमभिहितं यस्मि- न्कामाः समाहिताः सत्या अनृतापिधाना यदुपासनसहभावि ब्रह्मचर्य साधन- मुक्तमुपासनफलभूतकामप्रतिपत्तये व मूर्धन्यया नाड्या गतिरभिहिता सोऽन्वे- ष्टव्यः शास्त्राचार्योपदेशैज्ञतव्यः स विशेषेण ज्ञातुमेष्टव्यो विजिज्ञासितव्यः स्वसं-