पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- मानन्द गिरिकृ तटीका संवलितशांकरभाष्यसमेता- [ ८ अष्टाध्याये वेद्यताबापादयितव्यः । किं तस्यान्वेषणादिजिज्ञासनाच्च स्यादित्युच्यते - स सर्वोच लोकानाप्नोति सर्वाचि कामान्यस्तमात्मानं यथोक्तेन प्रकारेण शास्त्रा चार्योपदेशेनान्विष्य विजानाति स्वसंवेद्यतामाप.दयति तस्यैतत्सर्वलोकका. मात्राप्तिः सर्वात्मता फलं भवतीति ह किल प्रजापतिरुवाच | अन्वेष्टव्यो विजि- शासितव्य इति चैप नियमविधिरेव नापूर्वविधिः । एवमन्चेष्व्यो विजिज्ञा- सित्तव्य इत्यर्थः । दृष्टार्थत्वादन्वेषण विजिज्ञासनयोः । दृष्टार्थत्वं च दर्शयिष्यति नाहम भोग्य पश्यामीत्यनेनासकृत् । पररूपेण च देहादिधभैरवगम्यमान- स्याऽऽत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थते- वास्य विधैर्युक्ता न त्वग्निहोत्रादीनामिया पूर्वविधित्वमिह संभवति ।। १ ।। ४७२ यन्मायोपाधि सर्विशेषं चैतन्यं तदेव निरुपाधि निर्विशेषमिति सविशेषनिर्विशेषयोरभे दाभिप्रायेण प्रजापतिवाक्यं व्याकर्तुमादत्ते - - य आत्मेति । तत्र सोऽन्वेष्टव्य इति वाक्ये सशध्दार्थमाह — यस्येति । उपासनमपि किमर्थमित्यपेक्षायामाह - उपलब्ध्यर्थमिति । | तस्यैतःफलमिति संबन्धः । कथं निर्गुणविद्यायाः सर्वलोककामावाप्तिः फलमित्याशङ्कयाऽऽह- सर्वात्मतेति । परिच्छेदभ्रमव्यावृत्त्या पूर्णस्वरूपेणावस्थितिरित्यर्थः । प्रजापतिवाक्यात्प्रती यमानविधिश्वरूपमाह–अन्वेष्टव्य इति । एत्रकारव्याच दर्शयति – नापूर्वविधि रिति । शब्ददिन विद्योदये तदुत्पस्वर्थोऽपूर्वविधरं महोत्रादिविधियन्न संभवतीत्यर्थः । कथमिह नियमविधिरपि स्यादवघात विधिवदित्याशङ्कयाऽऽह — एवमिति | मिथ्याज्ञानसं- स्कारप्राबल्पादनात्माभिनिवेशस्य पक्षेपात शास्त्राचार्याभ्यामात्मान्वेषणमेव कार्यमिति निश्रम इत्यर्थः । इतश्च नियमविधिरेत्र नापूर्वविधित्याह - दृष्टार्थत्वादिति । अन्वेषण- विजिज्ञासनाम्यां ज्ञानसाधनमुक्तं तस्य च विद्याद्वाराऽविद्यानिवृत्तिर्दृष्टमेष फलनन्वयव्यति- रेकाभ्यां तद्धेतुत्वात्रगमात्तथा च तत्र नापूर्वविधैरवकाशोऽस्तीत्यर्थः । तयोर्दृष्टफलस्वे चाक् शेषमनुकूलयति–दृष्टार्थत्वं चेति । कथमसकृत्प्रयुक्तेन न पश्यामीति वर्तमानोप- देशेन।न्चेषणांदेदृष्टफलतेच्याशङ्कय देहातिरिक्तात्मवादिनां वाकज्ञानादनुमानाच्च मनुष्य- स्वादिभ्रमनिरृत्तिप्रसिद्धेमैत्रमित मिर्त्रेयांऽऽह – पररूपेणेति । अन्वेषणादेर्दृष्टफलत्वे फलि. तमाह--इति नियमार्थतेति | अपूर्वविधित्वं तद्विषयत्वमिति यावत् । इहेत्यन्वेषणादेरु- क्तिरग्निहोत्रादिवदन्वेषण|देरत्यन्ता प्राप्त्यभावस्योक्तत्वादित्यर्थः ॥ १ ॥ × अत्रान्विष्योत भाग्यान्मूऽन्विष्यति पाठोऽनुमेयः । 1 १ व. ङ. च. 'थोक्कम २६. ङ च ट ड ढ 'पू' | ३ क. ख. छ. . . नप' । ४ ख. ॠण च फ