पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमैता- [ ८ अष्टाध्याये- च । ननु न युक्तभेष उ एवैत्यनृतं वक्तव | न चानृतमुक्तम् । कथम् | आत्म नोक्तोऽक्षिपुरुषो मनांस संनिहिततरः शिष्यगृहीताच्छायात्मनः । “ सर्वेप चाभ्यन्तरः सर्वान्तरः ” इति श्रुतेः । तमेवावोचदेप उ एवेत्यतो नानृतमुक्त प्रजापतिना । तथा च तयोर्विपरीतग्रहणनिवृत्यर्थ ह्याह ।। ४ ।। इत्यष्टमाध्यायस्य सप्तमः खण्डः ॥ ७॥ 3 प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चेदयति - नन्विति । [शष्टशिष्यगतं विपरीतग्रह गमाचार्येणानुज्ञातुमयुक्तमित्यङ्गीकृय प्रजापतेरभिप्रायमाह - सत्यमेवमिति ! कथं तर्हि तयोर्निपरीतग्रहणमपतेतव्यमित्याशङ्कयाऽऽह - गृह्णीतां तावदिति । ताव: द्विपरीतमिति शेषः । चकारेण क्रियापदमनुकृष्यते । यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषाचादित्वं स्यादिति शङ्कते – नन्विति । प्राजापत्यमभिप्रायमेव प्रकटयन्नतिप्रसङ्गं परि हर्तुं तदीयमनृत्तवादित्वं दूषयति – न चेति । तदेवाऽऽकाङ्क्षा पर्थक स्फुटयति — कथ मित्यादिना | शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापति - भोक्तो योऽस्त्यक्ष्युपलक्षितो द्रष्टा स मनसि प्रजापतेः संनिहिततरोऽतः स एव तेनोक्त इत्यर्थः । इतश्च द्रा प्रजापतेर्मनसि संनिहिततर इसाह - सर्वेषां चेति । प्रजापतेर्मनसि द्रुष्टुः संनिहितत्वेऽपि कथं तस्य न मृणावादित्यमत आह - तमेवेति । इतश्च प्रजापतेर्न सृषावादित्वमित्याह- - तथा चेति ॥ ४ ॥ – इल्यष्टाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ( अयाटमाथ्यायस्माष्टमः खण्डः 1 ) उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथ- स्तन्मे प्रतमिति तो होदरारावेऽवेशांचकाते तो ह प्रजापतिरुवाच किं पश्य इति तो होचतः सर्वमे वेदमावां भगव आत्मानं पश्याव आ लोमय आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥ उदशरात्र उदकपूर्ण शरावाढावात्मानमवेक्ष्यामन्तरी यत्तत्राऽऽत्मानं प्रयन्तन विजानीयस्तन्मे मन प्रब्रूतमाचक्षीयायामित्युक्त ह १ स. ज. च. ‘क्षिण पु । २... च्छा' | ३ ग. ट. शिष्य |