पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

४०. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ १ प्रथमाध्यायेराजगृहं प्रविष्टस्य विशेषदर्शनादक्षरं प्रविष्टस्यापि फले विशेषः स्यादित्याशङ्कयाऽऽह-- तत्मविश्यति । अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥ इति प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ (अथ प्रथमाध्यायस्य पञ्चमः खण्डः ।) प्राणादित्य दृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूय प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्टयाऽक्षरस्योपासनमनेकपुत्रफलमिदानी वक्तव्यमित्यारभ्यते अथ खलु य उद्गीथः स प्रणयो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीय एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥ अथ खलु य उद्गीथः स प्रणवो बहवचानां यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः। असावा आदित्य उद्गीथ एष प्रणवः। प्रणवशब्दवाच्योऽपि स एव बचानां नान्यः । उद्गीथ आदित्यः । कथम् । उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात्स्वरन्नुच्चारयन्ननेकार्थत्वाद्धातूनाम् । अथवा स्वरन्गच्छन्नति । अतोऽसावुद्गीथः सविता ॥१॥ खण्डान्तरस्य तात्पर्यमाह-प्राणादित्योति । प्रणवस्योद्गीथस्य चैकवं कृत्वा तस्मि. न्सत्यध्यात्मं प्राणदृष्टयाऽधिदैवतमादित्यदृष्टय, च विशिष्टस्योद्गीथस्य यदुपासनमुक्तं तदेवानूद्य निन्दित्वा प्राणानां रमीनां च भेद एव गुणस्तद्विशिष्टदृष्टया तस्यैवोद्गीथावयवस्याक्षरस्यानेकपुत्रफलमुपासनमनेन ग्रन्थेन वक्तव्यमित्युत्तरो ग्रन्थः संप्रति प्रस्तूयत इत्यर्थः । अमृताभयगुणकाक्षरोपासनानन्तर्यमथशब्दार्थः । प्रणवोद्गीथयोरेकत्ये वैदिकप्रसिद्धिप्रदर्शनार्थ खल्वित्युक्तम् । तयोरेकत्वमुक्त्वाऽऽदित्यदृष्टयोद्गीथोपास्तिमुक्तामनुवदति-असाविति । उद्गीथादित्ययोरेकत्वं प्रश्नपर्वकमुपपादयति--उद्गीय इत्यादिना । उच्चारयन्नेतीति संबन्धः । स्वरतर्गत्यर्थत्वात्कथमुच्च रयन्नित्युच्यते तत्राऽऽह–अनेकार्थत्वादिति । गच्छन्सविता प्राणिनां प्रवृत्यर्थमोमित्यनुज्ञां कुन्निव गच्छति तस्मादोंकारत्वं सवितुरित्याह-अथवेत्यादिना ॥ १ ॥ एतमु एवाहमायगासिषं तस्मान्मम त्वमेकोऽ. १ अ. लकमि । २. . यन्नेत्यने । ३ ख. अ. अतः स उनी । ४ ख. अ. परित्यन पक्षान्तरमाह ।