पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[ ८ अष्टमाध्याये- विरोचन संप्रदायस्याविच्छिन्न दर्शयति तस्मादिति | देहात्मवादस्याऽऽसुरत्वादिति यावत् । तःसंप्रदायस्तेषां बिरोचनप्रभृतीनामसुराणां संप्रदायो देहात्मत्वोपदेशः । किमि- त्यात्मवादिरहितमासुरमा हुरियपेक्षायामह - असुराणां हीति | प्रकृतोपनिषत्कार्यं कथ यति-तयेति ॥ ५ ॥ इत्यष्टमाध्यायस्याष्टमः खण्डः ॥ ८॥ (अष्टाध्याय नमः खण्डः । ) अथ हेन्द्रोऽमाचैव देवानेयं ददर्श यथैव खल्व यमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुबसने सुवसन: परिष्कृते परिष्कृत एवमेवायम- स्मिन्नन्छेऽन्धो भवति स्रामे स्रामः परिवृक्णे परि- वृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति ॥ ३ ॥ अथ ह किलेन्द्रोऽपाप्चैव देवान्दैव्याऽक्रौर्यादिसंपदा युक्तत्वाद्गरोर्व चनं पुनः पुनः स्मरन्चैव गच्छन्नेतदक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श दृष्टवान् । उदशरावशन्तेन प्रजापतिना यदर्थो न्याय उक्तस्त- देकदेशो मघवतः प्रत्यभाबुद्धौ | येन च्छायात्म ग्रहणे दोपं ददर्श । कथम् | यथैव खल्वयमस्मिञ्छरीरे सावलंकृते छायात्माऽपि साध्वलंकृतो भवति सुत्रसने च लुवसनः परिष्कृते परिष्कृतो यथा नखेलोमादिदेहावयवापतमे छायात्माऽपि परिष्कृतो भवति नखैलोमादिरहितो भवति । एवमेवायं छाया. स्माऽप्यस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुल्यत्वादन्धे चक्षुषोऽपग. मेऽन्यो भवति स्रामे स्रामः | सामः किलैक नेत्रस्तस्यान्यत्वेन गतत्वात् । चक्षुर्नासिका वा सदा स्रवति स सामः | परिक्गश्छिन्नहस्तश्छिन्नपादो वा । सामे परिक्गे वा देहे छायात्माऽपि तथा भवति । तथाऽस्य देहस्य नाशमन्वेष नश्यति ॥ १ ॥ 9 एवं विरोचनगतं विशेषं दर्शयित्व देवराजगामिनं विशेषमाह - अथेत्यादिना । द्वयोस्तुल्येऽपि प्राजापत्यवाक्यश्रवणे देवराजस्थैव कथं पथि तदनुसंधानं वृत्तमित्याश- १ ग. ट. ने सु° । २ . . . उ. रोमा' | ३ क.ग.ट. 'खरोमा | C