पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्ड: ९ ] छान्दोग्योपनिषत् | ४८५ दोपभूपत्त्यापेक्षं गृह्णतो बिरोचनस्याभिप्रायं दृष्टान्तेन दर्शयति – यथेत्यादिना । उक्त- मर्थं बृहदारण्यकश्रुत्यवष्टम्भेन स्पष्टयति – स्वचितेति । देवान्मनुष्यानसुरांश्च प्रजापतिना दकारोपदेशे साधारण्येन कृते तेषां तदीयश्रवणे तुल्ऽपि तदर्थविशेषावधारणं स्वचित्तगु णदोषत्रश|देव बृहदारण्यको ख्यापितं तथेहापीत्यर्थः । तत्र वा कथं तुल्येऽपि श्रवणेऽर्थ- विशेषबुद्धिस्तत्राऽऽह- दास्यतेति | अदान्ता हि वयं स्वभावतस्तेन दाम्यतेत्यस्मान्प्रति पितोक्तवानिति देवानां मतिराविरासीत् | स्वभावतो लुब्धा वयं तेन दत्तेयस्मान्प्रत्युक्तवा- न्वितेति मनुष्याणां बुद्धिरासीत् । सुक्रूरा हि वयं स्वभावतस्तेन दयध्वमिःयस्मान्प्रति प्रजा- पैतिरूचिबानित्यसुराणां प्रतिपत्तिर्बभूव । तदेवं दकारमात्र श्रवणादात्मचित्तानुरोधेन विचित्रा तेषां मनीषा प्रवृत्ता तथेन्द्रविरोचनयोरपि भविष्यतीत्यर्थः । अथेन्द्रविरोचनयोर्मुक्तिदर्शना- विशेषादर्थप्रतिपत्तेरप्यविशेष: स्वादिति चेन्नेत्याह- निमित्तान्यपीति । युक्तिदर्शनान्यपि स्वचित्तगुणदोषाल्पत्वबहुत्वापेक्षाण्यतस्तयोस्तदपेक्षं प्रतिपत्तिवैषम्यमविरुद्धभित्यर्थः ॥ २ ॥ एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्या- ख्यास्यामि वसापराणि द्वात्रिश्शतं वर्षाणीति स हापराणि द्वात्रिश्शतं वर्षाणयुवास तस्मै होवाच ॥ ३ ॥ इत्यष्टमाध्यायस्य नवमः खण्डः ॥ ९ ॥ एवमेवैष मघवन्सम्यक्त्वयाऽवगतं न च्छायात्मेत्युवाच प्रजापतिर्यो मयोक्त औत्मा प्रकृत एतमेवाऽऽत्मानं तु ते भूयः पूर्व व्याख्यातमप्यनुव्याख्यास्यामि । यस्मात्सकृव्याख्यातं दोषरहितानामवधारणविषय प्राप्तमपि नाग्रहीरतः केन- चिद्दोषेण प्रतिबद्धग्रहण सामर्थ्यस्त्वमतस्तत्क्षपणाय वसापराणि द्वात्रिंशतं वर्षा- णीत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै होवाच || ३ || इत्यष्टमाध्यायस्य नवमः खण्डः ।। ९ ।। इन्द्राभिप्रायं बुद्ध्वा प्रजापतिरनुमोदितत्रा नित्युक्तमिदानीमनुमोदनवाक्यं व्याकरोति- एवमेवेति । इन्द्राभिप्रायविषय एषशब्दः । अनुव्याख्यास्यामीत्युक्तं श्रुत्वा श्रोतुकाममुपगत- मिन्द्रं प्रत्याह – यस्मादिति || ३ || इत्यष्टमाध्यायस्य नवमः खण्डः ॥ ९ ॥ १ क. ट. क्रूरा | ग. छ. सूप | २ क. ख. छ. ञ. ण. पति: सूचितवा” । ३ ख. ञ॰ प. आमैत । ४ क. ग.. ङ.. ट. उ. ड. ढ. 'बयप्रा' ।