पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता - [ ८ अष्टमा ध्यायें - ( मध्य दशमः खण्डः । ) य एष स्वभे महीयमानञ्चरत्येव आत्मेति होवाचे- तदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः स हात्राप्यैव देवानेतद्भवं ददर्श तययपीद मन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवें- षोऽस्य दोषेण दुष्यति ॥ १ ॥ य आत्माऽपहत पाप्मादिलक्षणो य एषोऽक्षिणीत्यादिना व्याख्यात एष सः | कोऽसौ । यः स्वप्ने महीयमानः स्यादिभिः पूज्यमानश्चरत्यनेकविधान्स्व - मभोगाननुभवतीत्यर्थः । एप आत्मेति होवाचेत्यादि समानम् । स हैवमुक्त इन्द्रः शान्तहृदयः प्रवत्राज | स हामाध्यैव देवान्पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श | कथम् | तदिदं शरीरं यद्यप्यन्धं भवति स्वप्नात्मा योऽनन्धः स भवति । यदि स्रामामिदं शरीरमसामश्च स भवति नैवैष स्वमात्माऽस्य देहस्य दोषेण दुष्यति ।। १ ।। प्रवव्राज शरीर- पूर्ववच्छायात्मदर्शनत्रदित्यर्थः । अस्मिन्नप्यात्मनीति स्वप्नदृशीत्यर्थः । छायात्मनः शरी- रानुविधायित्ववन्न स्वप्नदृशस्तदनुविधायित्वं तथाच कथं पूर्ववदोषदर्शनभित्याशङ्कय परि- हरति — कथमित्यादिना ॥ १ ॥ न वधेनास्य हन्यते नास्त्र साम्येण स्रामो नन्ति त्वेनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदि तीव नाहमत्र भोग्यं पश्यामिति ॥ २ ॥ स समिताणिः पुनरेयाय त ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजी: किमिच्छन्पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भव- त्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥ न बधेनास्य हन्यते नास्य साम्येण स्रामो