पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | नन्ति वैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीय नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघव- निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिशतं वर्षाणीति स हापराणि द्वात्रिशतं वर्षावास तस्मै होवाच ॥ ४ ॥ दशम खण्ड: १०] ४८७ इत्यष्टमाध्यायस्य दशमः खण्डः ॥ १० ॥ नाप्यस्य वधेन स हन्यते छायात्मवन्न चास्य स्रायेण स्त्रामः स्वमात्मा भवति । यदभ्यायादावागममात्रेणोपन्यस्तं नास्य जस्यैतज्जीर्यतीत्यादि तदिह न्याये- नोषपादयित्तुमुपन्यस्तम् । न तावदयं छायात्मवद्देहदोषयुक्तः किंतु घ्नन्ति त्वे- वैनम् । एवशब्द इवार्थे । मन्तीवैनं केचनेति द्रष्टव्यम् । न तु घ्नन्त्येवेति । उत्तरेषु सर्वेष्वित्रशब्ददर्शनात् । नास्य वधेन हन्यत इति विशेषणाद्मघ्नन्ति त्वे- वेति चेन्नैवम् | प्रजापतिं प्रमाणीकुर्वतोऽनृतवादित्वापादनानुपपत्तेः । एतदमृत- मित्येतत्प्रजापैतिवचनं कथं मृपा कुर्यादिन्द्रस्तं प्रमाणीकुर्वन् । स्र.म्येण चक्षुरादिगतानवरतस लिलगलन विषयत्वेने ते यावत् । हृदोषेणाऽऽत्मनो न दोषो भवतीति प्रागेत्रोक्तं तत्किमर्थमिह पुनरुच्यतेऽत आहे--२ -- यदध्यायादाविति । न्यायोऽ- न्वयव्यतिरेकाख्यः । एतद्देहाभिमाने हि सत्येव देहधर्मेण संयुज्यत इव द्रष्टा स्वप्ने त्वेतद्दे- हाभिमानाभाबान्न तेन संसृज्यत इत्याह — तदिहेति । स्वप्नद्रष्टा चेद्देहदोषेण न युज्यते कथं तर्हि तस्मिन्दोषदर्शनमित्याशङ्कयाऽऽह -- न तावदिति । किमित्येवकारो यथा- श्रुतो न व्याख्यायते तत्राऽऽह – न रिवति । इतिशब्दो द्रष्टव्यमित्यनेन संबध्यते । देहस्य वधेन नायें हन्यत इति विशेषणात्तवतो वधः स्वप्नदृशो नियमतो विवक्षितः कस्मा- देवशब्दो न यथाश्रुत एवेति शङ्कते – नास्येति । किमयं प्रजापतेिमाप्तमाप्तं वा मन्यते यद्यनाप्तं बुध्यते न तर्हि तं प्रत्युपगतिरिन्द्रस्य विद्याग्रहणार्थं संभवतीति मःवाऽऽह -- नैवमिति । त्रिऋल्पान्तरं प्रत्याह -- प्रजापतिमिति । न स्वतो हननं स्वप्नदृशो विवक्षि तमिन्द्रस्येति शेषः । उक्तमेव स्फोरयति — एतदिति । - ननु च्छायापुरुषे प्रजापतिनोक्तेऽस्य शरीरस्य नाशमन्वेष नश्यतीति १ व. च. ठ. ण. १र्वेच' ।