पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ आनन्दगिरिकृतटीकासँवलितशांकरभाष्यसमेता– ८ अष्टाध्याये- दोषम॑भ्यँदधात्तथैहापि स्यात् । नैवस् । कस्मात् । य एषोऽक्षिणि पुरुषो दृश्यत इति न च्छायात्मा प्रजापतिनोक्त इति मन्यते मघवान् । कथम् | अपहृत पाप्मादिलक्षणे पृष्टे यदि च्छायात्मा प्रजापतिनोक्त इति मन्यते तदा कथं प्रजा पति प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत् | जगान च | तस्मान्न च्छायात्मा प्रजापतिनोक्त इति मन्यते । तथा च व्याख्यातं द्रष्टाऽक्षिणि दृश्यत इति । तथा विछादयन्तीव विद्राघयन्तीव तथा च पुत्रादिमरणनिमित्तमप्रिय- चेत्तेव भवति | अपि च स्वयमपि रोदितीव | नन्वप्रियं वेत्त्येव कथं वेत्तत्रेति ! उच्यते—नामृताभयत्वत्रचनानुपपत्तेः । ध्यायतीवति च श्रुत्यन्तरात् । ननु प्रत्यक्षविरोध इति चेत् । न । शरीरात्मत्व प्रत्यक्षत्रद्धान्तिसंभवात् । तिष्ठतु तांब- दप्रियवेत्तेव न वेति । नाहमत्र भोग्यं पश्यानि । स्वमात्मज्ञानेऽपीष्टं फलं नोप- लभ इत्यभिप्रायः । एवमेवैष तवाभिप्रायेणेति वाक्यशेषः । आत्मनोऽमृता- भयगुणवत्त्वस्याभिप्रेतत्वात् । द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति । तस्मात्पूर्वबदस्याद्यापि प्रतिबन्धकारणमस्तीति मन्यानस्तक्षपणाय वसापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमित्यादिदेश प्रजापतिः । तथोषितवते क्षपितकल्म- पायाऽऽह ॥ २ ॥ ३ ॥ ४ ॥ इष्टाध्यायस्य दशमः खण्डः ॥ १० ॥ दृष्टान्तेन शङ्कते– नन्विति । दृष्टान्तं विघटयति – नैवमिति । तद्विघटनप्रकारं प्रश्नपूर्वकं_प्रकटपति–कस्मादित्यादिना । एतदेवाऽऽक ङ्क्षा पूर्वकं प्रपश्चयति — कथमित्यादिना | अथेन्द्रो दृश्यत इति श्रुत्यर्थं गृहीत्वा छायात्मानमेव गृहीतवानि- त्युक्तं कथमिदानीमन्यथोच्यते तत्राऽऽह -- तथेति । यथेदं वाक्यमपुपलक्षितद्रष्टृपरं तथा प्रागेच व्याख्यातं न तु स्वप्नद्रष्टर च्छायात्मनीचस्पा विनाशदृष्टिरित्यर्थः । यथा सदुपगम्प स्वमद्रष्टारं घन्त तथेति यावत् । इशब्दमाक्षिपति - नन्विति । वेत्तृत्वं विकारश्चेदमृतत्त्रं न स्वान्मृदादिवद्विनाशिस्त्र प्रसङ्गात्तस्तादिवशब्दयुक्त इत्युत्तरमाह-- उच्यत इति । अहं वैद्मीतिविक्रियाश्श्रयस्त्र प्रत्यक्षविरोधादिवशब्दो न युक्त इति शङ्कते- नन्विति । अभ्यासादपि प्रत्यक्षोपपत्तेर्न विकारित्वं सिव्यतीति परिहरति - नेत्यादिना । नाहमित्यादि वाक्यमत्रतारयति — तिष्ठत्विति । न वेत्यप्रियवेत्तव भवतीत्यर्थः । इष्टं सर्व- लोककामाबाविलक्षणं दिवे ब्रह्मभावेनाऽऽच्याँसिकमप्यप्रियवेत्तृत्वादिकमस्ति तत्पुन र्हृद्देशेऽ- प्यागतसतस्वदभिप्रायेणाप्रियवेत्तंत्र स्वप्नद्रष्टा न तु मदमित्रायेणेति विशिष्ट--तवेति । - १ क. भ. ट. ड. ढ. द| २ . च. उ. 'भ्या" । ३ ङ. 'तेऽमृ' । ४ ख. व ञ. ती लेलायती ५ . . . . ढ. स्मा' | ६ ख. ञ. 'स्तत्क्षेप' । ७ अ मात्मिक° । 1