पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्यायै - सद्भात्रोऽवगम्यते नासति ज्ञाने । न च सुषुप्तस्य ज्ञानं दृश्यतेऽतो त्रिनष्ट इवे- त्यभिप्रायः । न तु विनाशमेवाऽऽत्मनो मन्यतेऽमृताभयवचनस्य प्रामाण्यमि- च्छन् ॥ १ ॥ २ ॥ - - यथा पूर्वमेतं त्वेव त इत्याद्युक्त्वा य एष स्वप्ने महीयमान इत्याद्युक्तं तथेह प्येतं त्वेवे- त्युक्त्वा तद्यत्रैतादियह विशिष्टाधिकारिणे प्रजापतिरिति योजना | व्याख्यातस्यैच वाक्य- स्यार्थं संक्षिप्य दर्शयति — अक्षिणीति । तत्रापि सुषुप्तदर्शनेऽपीत्यर्थः । तदेव दोपदर्शनं प्रश्नद्वारा स्फोरयति — कथमित्यादिना | स्वात्मानं न जानातीत्युक्त मेवाऽऽकाङ्क्षाद्वारे- णाभिनयति – कथमिति । तत्र वैधर्म्यदृष्टान्तमाह - यथेति | स्वपरविवेकाभावे दोष- माह—अत इति । ध्नन्ति त्ववेत्यत्रोक्तं लक्षति – पूर्ववदिति । कुतो ज्ञानाभाबमात्रेण विनष्टत्वमित्याशङ्कयोक्तमभिप्रायं स्पष्टयति – ज्ञाने होति । एवकारो यथाश्रुत एव किं न स्यादित्याशङ्कयाऽऽह —न विति ॥ १ ॥ २ ॥ - - एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनु- व्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापर|णि पञ्च वर्षात सहापराणि पञ्च वर्षाणयुवास तान्येकशत ५ संपेदुरेतत्तयदाहुरेक रात ह वै वर्षाणि मघवान्त्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥ इत्यष्टमाध्यायस्यैवादशः खण्डः ॥ ११ ॥ पूर्वत्रदेवमेवेत्युक्त्वा यो मयोक्तस्त्रिभिः पर्यायैस्तमेवैतं नो एवान्यत्रै- तस्मादात्मनोऽन्यं कंचन किं ततमेव व्याख्यास्यामि । स्वल्पस्तु दोष- स्तवावशिष्टस्तत्क्षपणाय वसापरण्यन्यानि पञ्च वर्षाणीत्युक्तः स तथा चकार । तस्मै मुदितक पायादिदोषाय स्थानत्रयदोषसंवन्धरहितमात्मनः स्वरूपम पहतपाप्मत्वादिलक्षणं तस्मै होवाच । तान्येक शतं वर्षाणि संपेदुः संपन्नानि बभूवुः । यदाहुलक शिष्टा एकशतं ह वै वर्षाणि मत्रवते मघवान्प्रजापतौ ब्रह्मचर्यमुवासेति । तदेतद्द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकाततॊऽपसृत्य श्रुत्योच्यते । एवं किलैतदिन्द्रत्वा- १ क. गं. ङ, ट, ड. ढ. °वो ग° | २ क. ग. टस्थ ३ ख. ञ, 'मृतमभय- मितिष° । २ ख. छ. ञ. ण त्याचा ५ क. ग.. वं तु किं ।