पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

पञ्चमः खण्डः '५] छान्दोग्योपनिषत् ।। सीति ह कौषीतकिः पुत्रमुवाच रश्मीचे पर्यावर्तयाबहवो वै ते भविष्यन्तीत्यधिदैव तम् ॥ २॥ ततमु एवाहमभ्यमासिषमाभिमुख्येन गीतवानस्म्यादित्यरझ्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः । तेन तस्मात्कारणान्मम त्वमेकोऽसि पुत्र इत्ति है कौषतिकिः कुपीतकस्यापत्यं कौषीतकिः पुमुवाचोक्तवान् । अतो रश्मीनादित्यं च भेदेन त पर्यावर्त यात्पर्यावर्तयेत्यर्थः । त्वंयोगात् । एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधिदैवतम् ॥ २ ॥ ___आदित्यदृष्टयोद्गीथमुपदिष्टमनच निन्दति-तमेतमिति । निन्दाफलं दर्शयतिअत इति । पर्यावर्तयादिति प्रथमपुरुषे श्रयमाणे किमिति मध्यमपुरुषो व्याख्यायो तत्राऽऽह-त्वंयोगादिति । युष्मद्यपपदे संध्यमपुरुषविधानादित्यर्थः । रश्मिभेदगुणह. टिविशिष्टोद्गीथोपासनस्य फलं कथयति-एवमिति । वक्ष्यमाणेऽध्यात्मे बुद्धिसमाधानार्थमुक्कं देवताविषयं दर्शनमुपसंहरति-इत्यधिदेवतामिति ॥ २ ॥ अथाध्यात्म य एवायं मुख्यः प्राणस्तमुद्दीथमुपास: तोमिति ह्येष स्वरन्नेति ॥ ३॥ अथानन्तरमध्यात्ममुच्यते । य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् । तथोमिति ह्येष प्राणोऽपि स्वरनेत्योमिति हानज्ञां कुर्वन्निव बागादि. प्रवृत्त्यर्थमेतीत्यर्थः । न हि मरणकाले ममः समीपस्थाः प्राणस्यांकरणं शृण्वन्तीति । एतत्स!मान्यादादित्येऽप्योकरणमनुज्ञामात्रं द्रष्टव्यम् ॥ ३ ॥ . अध्यात्मप्राणदृष्टयोद्गीथोपास्तिमुक्तामनुवदति-अथेत्यादिना । कथं ग्रामोद्गीथयोरेकत्वमिल्याशङ्कयाऽऽह-तथेति । यथा प्राणिनां प्रवृत्यर्थमोमित्यनुज्ञां कुर्वन्निवाऽऽदिल्यो गच्छतीयुक्तं तद्वदिति यावत् । उक्तमेष व्यतिरेकद्वारा रफे रयति-न हीति । मुमूर्ष. समीपवर्तिनो बन्धयो मरणकाले प्राणस्य चागादिप्रवृत्यर्थमनुज्ञाकरगं नैव जानन्ति । तथा च जीवदरस्थायामोमिति तदनुज्ञावशादेव चागादीनां प्रवृत्तिरालक्ष्यते । तस्मात्प्राणस्यानुज्ञामात्रमाकरणमित्यर्थः । प्राणादित्ययोरध्यात्माविदेवतयोरुद्दीथर माविशेषात्प्राणवदा. -दित्येऽप्यनुज्ञामात्रमोंकरणभवधेयमित्याह-एतत्सामान्यादिति ॥ ३ ॥ १.ख. अ. र्थः । यतस्तस्मा । २ ख. . . उ. ड. द. 'वितुमर्हन्ती : ३ रू. म, 2. 'दि । तथा पूर्व नदोमि'।