पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२] छान्दोग्योपनिषत् । ४९३ । । तस्यैव संपिडितमर्थमाह--तवानिति । उक्तेऽर्थे विशेषणं पातयति--सशरीर इति । अशरीरस्य कथं सशरीरत्वमित्याशङ्कयाऽऽह -- अशरीरेति | अविवेकतः सशरीरो भव- तीति पूर्येण संबन्धः । यतः सशरीरोऽत एव प्रियाप्रियाभ्यामात्तो वै पुरुष इति योजना वैशब्दार्थमाह--प्रसिद्धमिति । एतच्छच्दार्थमेयोत्तरवाक्यव्याख्यानेन स्फोरयति — सश- रीरस्येति । तौ ममेति मन्यमानस्य सतः स्वस्य तयोः संततिरूपयोपतिर्नास्तीति संबन्धः । प्रियाप्रिययोः स्वारस्येन विनाशोऽस्ति क्षणिकवादिय|शङ्कय संततिरूपयोरित्यु क्तम् । इतिशब्दो वाक्यसमाप्त्यर्थः । अजस्य देहसंयन्वद्वारा संसारित्वमुक्त्वा तस्यैव विद्यावतो देहनिवृत्तिद्वारेण मुक्ति दर्शयति - तं पुनरिति । मुके पुंसि प्रियाप्रिययोर्मि लितये. रस्पर्शेऽप्ये कैकस्य स्पर्शः स्यादिव्याशङ्कया।ऽऽ — स्पशिरिति । प्रत्येकं संबन्धम भिनयति—प्रियमिति | समस्ततया श्रुतस्यानेकस्य प्रत्येकं क्रियासंबन्धे दृष्टान्तमाह- नेति । प्रियाप्रिययो॒र्मुक्तात्मन्यसंस्पर्शं पातनिकापूर्वकं कैमुतिकन्यायेन दर्शयति — वर्मा- धर्मेति । तत्रेत्यशरीरताख्यं स्वरूपमुच्यते । ननु यदि प्रियमण्यशरीरं न स्पृशंतीति यन्मघवतोक् सुषुहस्थो विनाशमे- वापीतो भवतीति तदेवेहाण्यापन्नम् । नैष दोषः । धर्माधर्मकार्ययोः शरीरसंब- न्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् । अशरीरं न प्रियाप्रिये स्पृशत ईति । आगमापाथिनोहि स्पर्शशब्दो दृष्टो यथा शीतस्पर्श उष्णस्पर्श इति न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरश्मिना स्पर्श इति भवति तथाऽग्नेः सवितु- चष्णप्रकाश वत्स्वरूपभूतस्याऽऽनन्दस्य प्रियस्यापि नेह प्रतिषेधः “ विज्ञानमाँ- नन्दं ब्रह्म " " आनन्दो ब्रह्म " इत्यादिश्रुतिभ्यः । इहापि भूमैत्र सुखमि- त्युक्तत्वात् । - प्रियास्पर्शाभावं श्रुत्वा मोक्षस्यापुमर्थत्वं शङ्कते– नन्विति । इहापति मुक्तो गृह्यते । नियामक- स्वाभाविकप्रियाप्रतिषेध।न्न।पुमर्थत्त्रं मुक्तरित्युत्तरमाह - नैष दोष इति । प्रतिषेधमेवामिन- यति — अशरीरमिति | कादा चित्कयोरेव प्रियाप्रिययोरेष निषेत्र इत्यत्र माह—आगमापायिनोरिति । काद| चिके स्पर्शशब्दबन्न स्त्रात्मन्येतच्छन्दोऽस्तीत्याह- न त्विति । आनि तर्हि का दाचित्कमेव प्रियमिति तन्मात्रप्रतिषेधात्तदवस्थमपुमर्थत्व- मित्याशङ्कथाऽऽह--सवितुरिति । भूमविद्यालोचनायामपि सुखमात्रस्याऽऽत्मनि न प्रति पेघोस्तव्या-इहापति । । १ ख. गट. अज्ञस्य । क.ख. छ. ञ.. 'रीराख्यं । ३. ण. शति । ४ क. इत्यादिश्रुतिः आ’, ग. घ. ङ. च. ट, ढ, इत्यादिश्रुत्या । आ° । ५ क. ग. . . . . 'नन्दुमान' । ६ ग. नियममा’ । ●