पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश: खण्ड: १२] छान्दोग्योपनिषत् | ४९६ वति। शुद्धसत्त्वसंकल्पनिमित्तानों तु कामानामीश्वर देहसंबन्धः सर्वभूतेषु मानसानां पर एव सर्वसत्त्वोपाधिद्वारेण भांति सर्वाविद्याकृतसंव्यवहाराणां पर एवाइड- त्माऽऽस्पदं नान्योऽस्तीति वेदान्तसिद्धान्तः । i — सर्वेषां भृतानां लोकानां कामानां चाऽऽत्मा रुच्चिदानन्दमात्रं तद्रूपत्वं चेन्मुक्तस्यैष्यते कथं तर्हि तस्यैश्वर्यश्रुतयो निर्वहन्तीति चोदयति — नन्विति । सगुणविद्यावतां यदैश्वर्यं तन्निर्गुणविद्यास्तुत्यर्थं संकर्त्यते । ब्रह्मीभूतस्य मुक्तस्य सगुणविद्याया अपि प्रत्याभूतत्वा- फलस्य तत्रोपचरितुं युक्तत्वादिति परिहरति — नेत्यादिना | सर्वात्मत्व निन्दाऽपि प्रामोतीति शङ्कते – नन्विति । दुःखस्य दुःखत्वा भाववत्तस्याऽऽत्मा विद्वानपि न दुःखी भविष्यतीति समाधत्ते– दुःखस्येति । दुःलिनामात्मा मुक्त इति दुखः स्यात्त- त्राऽऽह — आत्मनीति । न तावदात्मनः स्वभावतो दुःाविद्यकं साच मुक्तस्य दग्धॆते दुःखित्वाप्रसक्तिरित्यर्थः । तर्हि विद्यया दग्धायामविद्यायां तद्ध्यारोपि- तमैश्वर्यमपीश्वरस्य सगुणविद्याफलभूतं दग्धमैत्रेति कथं स्तुत्यर्थमिद् तदुपदेशसिद्धिरित्याश- ङ्कयाऽऽह — शुद्धेति । शुद्धं सत्त्रं रजस्तमोभ्यास्पृष्टं तस्मान्मायैकदेशाज्जाताः संकल्पा निमित्तानि येषां कामानामैश्वर्यमेदानां ते तथोक्तास्तेषां सर्वेषु भूतेषु विषयेषु मनोमात्रेणेश्वराभिध्यानरूपेण सिद्धानामीश्वराख्येन ( 1 ) स्वभावेनामिसंबन्धो माया- वस्थायां सिध्यतीत्यर्थ: । ननु जीवानामेबाविद्यातत्कार्यसंवन्धो नेश्वरस्येति चेन्नेलाह- पर एवेति । य एषोऽक्षिणि पुरुषो दृश्यत इति च्छायापुरुष एव प्रजापतिनोक्तः । स्वम- सुषुप्तयोश्चान्य एव । न परोऽपहतपप्मत्वादिलक्षणों विरोधादिति केचिन्मन्यन्ते । छायाद्यानां चोपदेशे प्रयोजनमाचक्षते । आदावेवोच्यमाने किल दुर्विज्ञेय त्वात्परस्याऽऽत्मनोऽत्यन्त वाह्यविषयासक्तचेतसोऽत्यन्तसूक्ष्मवस्तुणे व्यामोहो मा भूदिति । यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुवृक्षं कंचित्प्रत्य- क्षमादौ दर्शयति पश्यामुमेष चन्द्र इति, ततोऽन्यं ततोऽप्यन्यं गिरिमूर्यानं च चन्द्रसमीपस्थमेप चन्द्र इति ततोऽसौ चन्द्रं पश्यति, एवमेतद्य एपोऽक्षिणीत्या. द्युक्तं प्रजापतिना त्रिभिः पर्यायैर्न पर इति । चतुर्थे तु पर्याये देहात्म- त्समुत्थायाशरीरतामापन्नो ज्योतिःस्वरूपम् । यस्मिनुत्तमपुरुषे रूयादिभिर्ज- क्षत्क्रीडन्रममाणो भवति स उत्तमः पुरुषः पर उक्त इति चाऽऽहुः । १ घ. च. ठ. ण. का। २ गट 'विद्यं सा | ३ ख. छ. ञ. ण ति दश्यत्वा । ४ गट. मनभिभूतं त° । ५ ख. छ. ञ. ण. 'रस्य चे ६ ख. ङ. च. ञ. ठ ड ढ ण 'पाप्मादि । ७ ख. . म चोख. व. च. ज. ड. ण. चन्द्रमसं| ९ क.गट. मधु । 1