पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश: खण्ड: १२] छान्दोग्योपनिषत् | ५०१ तत्राशरीरस्य संप्रसादस्याविद्यया शरीरेणाविशेषतां सशरीरतामेव संप्रा- तस्य शरीरात्समुत्थाय स्वेन रूपेण यथाऽभिनिष्पत्तिस्तथा वक्तव्येति दृष्टान्त उच्यते—अशरीशे वायुरविद्यमानं शिरःपाप्यादिमच्छरीरमस्येत्यशरीरः । किं च।भ्रं विद्युत्तनयित्नुरित्येतानि चाशरीराणि | तत्तत्रैवं सति वर्षादिप्रयोजना- बसाने यथा । अमुष्मादिति भूमिष्ठा श्रुतिर्द्युलोकसंबन्धिनमाकाशदेशं व्यप- दिशति । एतानि यथोक्तान्या काशसमानरूपतामापन्नानि स्वेन वाय्वादिरूपे- णागृह्यमाणान्याकाशाख्यतां गतानि यथा संप्रसादोऽविद्यावस्थायां शरीरात्म- भावमेवापन्नः, तार्निच तथाभूतान्यमुष्माद्युलोकसंबन्धिन आकाशदेशात्समु- त्तिष्ठन्ति वैर्षणादिप्रयोजनाभिनिर्वृत्तये । कथम् । शिशिरापाये सावित्रं परं ज्योतिः मकृष्टं ग्रैष्मकमुपसंपद्य सावित्रमभितापं प्राप्येत्यर्थः । आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वाऽभ्रमपि भूमिपर्वतहरत्यादिरूपेण विद्युदपि वैन ज्योतिर्लंतदिचपलरूपेण स्तनयित्नुरपि स्वनं गर्जिताशनिरूपेणेत्येवं प्रावृडागमे स्वेन स्वेन रूपेणाभि- निष्पद्यन्ते ।। २ ।। सशरीरस्य बन्धो मुक्ति रशरीरस्येति स्थिते किमर्थमशरीरो वायुरित्यादिवाक्यमित्याश- ङ्कचाऽऽह—तंत्रेत्यादिना । कथं वायोरशरीरत्वं तदाह -- अविद्यमानमिति । एवं सति वाय्वादीनामशरीरत्वे सतीति यावत् । आकाशस्य सर्वनैकरूपत्वादमुष्मादिति कुतो व्यपः देशसिद्धिरित्याशङ्कयाऽऽह – अमुष्मादितीति । यथोक्तान्यशरीराणि वाय्वादीनि तेषामाका- शत्वापत्तौ दृष्टान्तमाह — यथेति । तथा वाय्वादीनि स्वेन रूपेणागृह्यमाणत्वदशायामाका- शाख्यतां गतानीति संबन्धः । तानि च वाय्त्रादीनि तथा भूतान्याकाशात्मत्वं प्राप्तानी ये तत् । वर्षादिफलनिष्पत्त्यर्थं वाय्वादीनामाकाशदेशाः समुत्थानमुक्तमाकाङ्क्षाद्वारेण स्फुट- यति-कथमित्यादिना । स्वेन स्वेन रूपेणाभिनिष्पद्यन्त इति संवन्धः । तत्र वायोरनस्य विद्युतः स्तनयिःनोश्च स्वेन रूपेणामिनिष्पत्तिप्रकारं विवृणोति - पुरोवातदीति । स्तिमितभावं हिल्ला वायुरिति शेषः ॥ २ ॥ एवमेष संप्रसादोऽस्माच्छरी रात्समुत्थाय परं १ ट. ड. वर्षादि॰ । ट. ठ. ढ. 'ताच° ५ गट. 'तादिनेति । क. 'दिना वा° | ३ क. घ. ठ. 'पिप° । ४.ग. च. ङ. च.