पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ आनन्दगिरिकृतटी कासवलितशांकरभाष्यसमेता-[ ८ अष्टमाध्याये- शरीरं न स्पृशति । अविद्यानिमित्ताभावात् । ये तूच्छिन्नदोपैमृदितक पायर्मा- नसा: सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात्त एव मुक्तेन सर्वात्मभूतेन संवध्यन्त इत्यात्मज्ञानस्तुतये निर्दिश्यन्तेऽतः साध्वेतद्विशि- नष्टि - य एते ब्रह्मलोक इति । यत्र कचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वोत्तमत्वाद्ब्रह्मण उच्यन्ते । ― 3 विदुषो मुक्तस्यानुभूतदेहास्मरणे दूषणमाशङ्कते – नन्विति । असर्वज्ञत्वदोषं निरा- करोति – नँष दोष इति । अनुभूतार्थस्मृतौ हि सर्वज्ञ इति । न च शरीर'यनुभूतं तस्या- विद्याकामकर्ममूलस्पाज्ञानम|त्रत्वात्तस्य च सकार्यस्य ज्ञानोदयमात्रे नष्टत्वात्प्रागपि शरीरा देरनुभबविपरीतबर्तिश्चानुपपत्तेरित्यर्थः । शरीरादि पूर्वं सम्यग्ज्ञानेनाविषपकृतमपि सद्भ्रा. न्त्याऽनूभूतमेवेति विदुषामपि स्मर्तव्यमिति चेन्नेत्याह — न हीति । मुक्ते पुरुषे शरीर|दयो न संबध्यन्ते चेत्कथं तर्हि तत्र कामाः संबध्येर नित्याशङ्कषाऽऽह – ये त्विति । किमिति सर्वैरेते कामा नानुभूयेरन्नित्याशङ्कयाऽऽह – अनृतापिधाना इति । इत्श्च विदुनामेव त्तदभिब्यक्तिरित्याह—विद्येति । किमिति निर्गुणविद्याप्रकरणे विदुषि सत्यकामसंबन्धवचनं सत्राऽऽह—इत्यात्मज्ञानेति । आत्मविद्यास्तुत्यर्थं विदुषि कामसंबन्धवचनम् । मनसैतान्का- मान्पश्यन्नित्यन्त्र विशेषश्रवणमपि युक्तमित्याह – अत इति । इन्द्रियादिषु भवतां कामानां कुतो ब्रह्मलोकभावित्वमित्याशङ्कयाऽऽह -— यत्रेति । ननु कथमेकः सन्नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा कामांश्च ब्राह्मलौकिकान्पश्यन्रमत इति च विरुद्धम् | यथैको यस्मिन्नेत्र क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति चेति । नैप दोषः । श्रुत्यन्तरे परिहृतत्वात् । ६ष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेत्र भवति । द्रष्टुरन्यत्त्रेन कामानामभावान्न पश्यति घेति । यद्यपि सुषुप्ते तदुक्तं मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः | केन कं पश्येदिति चोक्तमेव । । मनसैतान्कामानित्यादिवाक्यं स्तुत्यर्थमपि प्रधानवाक्यविरुद्धत्वाच्याज्यमिति शङ्कते- नन्विति | वाक्ययोर्मिश्रो विरोधे दृष्टान्तमाह – यथेति । यद्वै तन्न पश्यति पन्चे तन पश्यति न हि द्रष्टुष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽ म्यद्विभक्तं यत्पश्येदिति बृहदारण्यकश्रुतिमाश्रित्य विरोधं धुनीते - नैष दोष इति । अथ योक्तं चाक् सुश्रुतमधिकृत्य प्रवृत्तं कथं मुक्तविषयतयोदाहृतमत आह- १ ख. ग. ब. च. ञ ट ठ. ढ. प. ये तु च्छि° । २ घ. ठ. ड. उच्यते । ३ ग. ट. "मैमलस्वा । ४ ग.. | ५ ग. परिस' ( ६ ख. छ. ञ. ण. कृतं स ' । ७ ख. म. घ. ङ. च. ञ ट ठ ण. नीति | ८ ग. ङ. च. ड. ड. ति भुतः का । ९ व. ढ. “ति त्रि |