पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ८ अष्टमा ध्याये- त्मसंतानैशरीरद्वयविशिष्टत्वेन स्फुरितं स्वरूपं दर्शयति विज्ञानेति । ईश्वरस्य यथोक्तप्रा- पाधिद्वारा भोक्तृत्वादिसंसारित्वमित्यत्र श्रुत्यन्तरं प्रमाणयति - - कस्मिन्निति । प्रतिष्ठा- स्यामीतीक्षित्वा स प्राणमसृजतेत्यादिश्रुतिरिति शेषः । तथाच यथा राज्ञा सर्वाधिकौरियेन सेनाध्यक्षः संधिविग्रहादौ नियुज्यते तदेश्वरेण सर्वचेष्टान्तराधिकृतः स्वकीयदर्शनादिव्या- पारनिमित्तं नियुक्तो भवतीसह – राज्ञेति । प्राणः स्वविलक्षणेन चेतनेन नियुज्यते प्रयोज्यत्वादश्वादिवदित्यनुमाना देह संहतात्प्राणादतिरिक्तोऽसंहतश्चेतनः सिध्यतीति समुदा- यार्थः । चक्षुरादिचेष्टा चेतननिमित्ता चेष्टात्वाद्र्थादिचेष्टावदित्यनुमानान्तरं सूचयति-- तस्यैवेति । प्रकृतप्राणविषयस्तच्छब्दः | मात्रेत्येतस्य व्याख्यानमेकदेश इति । प्राणसं- वादे चक्षुरादीनां प्राणपारतन्त्र्यप्रतीतेस्तदेकदेशत्वं तेषामिति द्रष्टव्यम् ॥ ३ ॥ अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्वाय प्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेद शृणवा- नीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥ अथ यत्र कृष्णतारोपलक्षितमाकाशं देहच्छिद्रमनुविषण्णमर्नुपक्तमनुगतं तत्र स प्रकृतोऽशरीर आत्मा चाक्षुषश्चक्षुपि भव इति चाक्षुपस्तस्य दर्शनाय रूपोपलब्धये चक्षुः करणं यस्य तदेहादिभिः संहतत्वात्परस्य द्रष्टुरैर्ये सोच चक्षुपि दर्शनेन लिङ्गेन दृश्यते परोऽशरीरोऽसंहृतः । अक्षिणि दृश्यत इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम् । सर्वविषयोपलब्धा हि स एवेति । स्फुटोपलब्धिहेतुत्वत्त्यक्षिणीति विशेषवचनं सर्वश्रुति । अहमदर्शमिति तत्सत्यं भवतीर्तिं च श्रुतेः । अथापि योऽस्मिन्देहे वेद कथमिदं सुगन्धि दुर्गन्धि जिघ्राणीत्यस्व गन्धं विज्ञाननितिस आत्मा तस्य गन्धाय गन्धविज्ञानाय घाणम् । अव यो वेदं वचनमभिव्याहराणीति वदिष्यामीति स १ क. ख. छ. ञ. ण. 'न' | २ ग. ट. 'कारी से | 3 क. ग. व. ङ. झ ञ ट उ. त. थ. गती । ४ ढ.. 'दुविष १५ क. ग. ट. ठ. °मा चक्षुषि भवतीति चा' । क. च.ड. ढ. त्मा चक्षुषे भागतेचा | ६ क. ग्व. ग. व. द.. च. ञ ट. ड. ण. र सो । ठ.. ‘स्र्थ. सो° । ७ ख. ञ. ह. ग. 'त्वाचा | उ. 'त्या' ख. ञ. ठ. 'ति श्रु° । ९ क ङ. ड. श्रुतिः ।