पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ अनन्दगिरि कृतटीका संवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्याये- चास्याऽऽत्मनः सामर्थ्यादवगम्यते । आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वं न तु व्याप्ततया | यथा सवितुः सत्तामात्र एव प्रकाशनकर्तृत्वं न तु व्याप्ततयेति तद्वत् | मनोऽस्याऽऽत्मनो दैवमप्राकृतमित रेन्द्रियैर साधारणं चक्षुष्टे पश्यत्य नेनेतिं चक्षुः। वर्तमानकालविषयाँणि चेन्द्रियाण्यतोऽदैवानि तानि | मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरण चेति दैवं चक्षुरुच्यते । स वै मुक्तः स्वरूपापन्नोऽविद्याकृतदेहेन्द्रियमनोवियुक्तः सवात्मभावमापन्नः सन्नेष व्योमवद्विशुद्धः सर्वेश्वरो मनउपाधिः सन्तेनैवेश्वरेण मनसैतान्कामान्सवितृप्रकाशवन्नित्यप्रततेन दर्शनेन पश्यन्रमते | कान्कामानिति विशिनष्टि—य एते ब्रह्मणि लोके हिरण्यनिधिद्धह्मविपयासङ्गानृतेनापिहिताः संकल्पमात्रलम्यास्तानित्यर्थः ॥ ५ ॥ ३ इन्द्रियैर्ब्रह्म॑णादिभिरसंस्पृष्टं तत्तद्वारेणानिष्पन्न मिति यावत् | केवलं मनोमात्रजनितमि- येतन्मन्वानि संपादयानीत्यर्थः । यो वेदेयत्र प्रत्ययार्थभूतं कर्तृत्वं सापेक्षत्वान्मिथ्या प्रकृत्यर्थं ( र्थ ) रूपं तु संविन्मात्रमनपेक्षतया सत्यमात्मस्वरूपमित्याह — यो वेदेति । आत्मा संवेदनस्वभावश्चेत्तत्संसर्गदेव विषयसिद्धिसंभवाच्चक्षुरादिवैयचं स्यादित्याशङ्कयाऽऽह- दर्शनादीति । अन्तःकरणवृत्तिर्दर्शनादिक्रिया । सा चाऽऽमनैः संविदेकरसस्थासङ्गो- दासीनस्य विषयसंसर्गभ्रम हेतुस्तनिष्पचर्यानि चक्षुरादीनि भवन्ति सार्थकानीत्यर्थः । तेषामुक्तरीत्या सार्थकत्वे गमकमाह - इदं चेति । करणानामुक्तं सार्थकत्वं प्रकृतस्य संचिन्मात्रस्थासङ्गत्वादेव स्वतो विषयसंबन्धानुपपत्त्या तत्संबन्धभ्रान्तिकारणान्तःकरण त्तिविशेष|पेक्षया निर्धारितमित्यर्थः । आत्मनः संविन्मात्रस्वभावः कथं कर्तव्वव्यपदेश इत्याशङ्कयाऽऽह-–आत्मन इति । य एषोऽक्षिणीत्यादि वाक्यं प्रपश्चितं संप्रति तंत्रेत्यादि फलवाक्यं प्रपञ्चयितुमिन्द्रियान्तरेभ्यो मनसो वैलक्षण्यं दर्शयति - मनोऽस्येति । तस्य चक्षुट्नेऽपि कुतो देवत्वमित्याशङ्कयाऽऽह--वर्तमानेति । आगन्तुकदोषराहित्यं मृदितदोपत्चम् | सर्भेश्वरो व्यज्यते यस्मिन्विशुद्धे मनसि तम्मनः सर्वेश्वरं तदुपाधिरस्येति तथोक्तः । ईश्वरेण तदभिव्यञ्ज के नेत्येतत् । अविद्यादिप्रतिबन्धकस्याभावान्मनसा नित्यं प्रततं दर्शनं नित्याभिव्यक्तःस्वरूपं चैतन्यं तेन पश्यन्निति योजना ॥ ५ ॥ तं वा एतं देवा आत्मानमुपासते तस्मात्तेपा । १ ख. ग. व. ङ. च. ञ ट ड ढ 'ति । च° २ व चट. यवोन्द्र । ३ ग ट. संपृक्तं त । ४ ख. ग. छ. ञ. ट. ण. 'थः | वें । ५ ख. ञ. ण. 'नः सच्चिदें | ६ ग॰ ‘स्यःसंयोगोडा़॰ । ७. छ. सनेवि । ८ ख. ञ. | ९ क. ग. ट. "तैव्य |