पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्डः १३ ] छान्दोग्योपनिषत् | सर्वे च लोका आत्ताः सर्वे च कामाः स सर्वाश्व लोकानामोति सर्वाश्श्च कामान्यस्तमात्मा- नमनुविय विजानाति ह प्रजापतिरुवाच प्रजाप- तिरुवाच ॥ ६ ॥ इत्यष्टमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा तस्मात्ततः श्रुत्वा तमात्मानमैद्य- त्वेऽपि देवा उपासते । तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः । यदर्थे हीन्द्र एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास तत्फलं प्राप्तं देवैरित्यभिप्रायः । तद्युक्तं देवानां महाभाग्यत्वान्न त्विदानी मनुष्याणा मैल्पजीवि तत्वान्मन्दतरप्रज्ञत्वाच्च संभवतीति प्राप्त इदमुच्यते - स सर्वोश्च लोकानामोति सर्वोच कामानिदानींतनोऽपि । कोऽसौ | इन्द्रादिवद्यस्तमात्मानमनुविद्य विजाना- तीति ह सामान्येन किल प्रजापतिरुवाच । अतः सर्वेषामात्मज्ञानं तत्फलमा- तिच तुल्यैव भवतीत्यर्थः । द्विवचनं प्रकरणसमाप्त्यर्थम् ।। ६ ।। इत्यष्टमाध्यायस्य द्वादशः खण्डः ॥ १२ ।। तं वा एतमित्यादि व्याचष्टे – यस्मादिति | पदार्थमुक्या वाक्पार्थमाह - यदर्थं हीति । स सर्वांश्चेत्यादिवाक्यमाशङ्कयोत्तरत्नोत्थाप्य व्याचष्टे – तद्युक्तमित्यादिना | यथोक्तं फलं तच्छब्दार्थ | प्रकरणं निर्विशेषत्रह्मात्मैकत्वज्ञानविषयम् ॥ ६ ॥ इत्यष्टमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ५०९ ( अयाटमाध्यायस्य त्रयोदशः खण्डः । ) श्यामाच्छबलं प्रपये शबलाच्छ्यामं प्रपयेऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा बह्मलोकमभिसंभवामी- त्यतिसंभवामीति ॥ १ ॥ इत्यष्टमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ १ स. ए. ण. मद्यापि | २ ख. ङ. ञ. 'भाग्यान । ट. "मत्यल्स | - नत्वि | ३ क.