पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ८ अष्टाध्याये श्यामाच्छवलं प्रपद्य इत्यादिमन्त्रास्त्रायः पावनो जपार्थश्च ध्यानार्थो वा । श्यामो गम्भीरो वर्ण:- श्याम इव श्यामो हार्द ब्रह्मात्यन्तदुरगाह्यत्त्रात्तद्धार्दं ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामाच्छवलं शवल इव शवलोऽरण्याद्यनेक काम- मिश्रत्वाद्ब्रह्मलोकस्य शावल्यं तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वोर्ध्वं गच्छेयश् । यस्मादहं शवलाद्ब्रह्मलोकान्नामरूपव्याकरणाय श्यामं प्रपद्ये हार्द भावं प्रपन्नोऽस्मीत्यभिप्रायः । अतस्तमेव प्रकृतिस्वरूपमात्मानं शवलं प्रपद्य इत्यर्थः । कथं शवलं ब्रह्मलोकं प्रपद्य इत्युच्यते - अश्व इव स्वानि लोमानि विध्य कम्पनेन श्रमं पीस्वादि च रोमतोऽपनीय यथा निर्मलो भवत्येवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माख्यं चन्द्र इवै च राहुग्रस्तस्तस्माद्राहोर्मुखात्प्रमुच्य भास्वरो भवति यथैवं धूत्वा प्रहाय शरीरं सर्वानर्थाश्रय मिहैव ध्यानेन कृतात्मा कृतकृत्यः सन्नकृतं नित्यं ब्रह्मलोकमभिसंभवामीति | द्विवचनं मन्त्रसमाप्त्यर्थम् ॥ १ ॥ इत्यष्टमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ५१० दहरैप्रकरणं विद्याप्रकरण उपास्यस्तुत्यर्थं प्रसङ्गादुक्तं तैरप्रकरणपरिसमाप्त्यर्थं प्रकृताया दहरविद्यायाः शेषभूतं जपविधानार्थमारमते – श्यामादिति । अत्यन्त दुरवगाया- नहीनानामिति शेषः । कथं जीवतो ब्रह्मलोकप्राप्तिरित्याशङ्कयाऽऽह – मनसेति । न तर्हि मुख्या तत्प्राप्तिरित्याशङ्कयाऽऽह – शरीरेति । विपरीतपाठं हेतुत्वेनेति ब्याचष्टे- यस्मादिति । हेतुः प्रतिज्ञया योज्यते--अत इति । दृष्टान्तमाकाङ्क्षा पूर्वकमवतार्य व्याचष्टे—कथमित्यादिना | शरीरस्य त्याज्यचे हेतुमाह - सर्वानर्थेति । इतिशब्दो ध्यानसमाप्त्यर्थो दहरोऽस्मिन्नन्तराकाश इति ॥ १ ॥ इत्यष्टमाच्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथाष्टमाध्यायस्य चतुर्दशः खण्डः ) आकाशो वै नाम नामरूपयोनिहिता ते यद- न्तरा तद्ब्रह्म तदमृतः स आत्मा प्रजापतेः सभां १ ख. च. ञ. ड. ढ. ण. थंचाया | २ ठ. ण. जिवा | ३ क. हार्द ब्रह्मभा। ध. च. हाई मा | ४ क. ण. पांश्वादि । ५ क. ग. घ. ङ. च. ञ. ट. ड. ढ. वतीत्ये | ६ ठ. झजपेन । ७ ग. ङ. ट ठ ड ढ. 'बरा' । ८. 'स्वरनरो । ९ ङ. ति तथै । १० क. ट. °न्त्रपरिस | ११ ग. ट. 'रवि' । १२ गट. तत्परि । १३ क. ग. छ. उ. ण. 'त्यन्तं दु' । १४ क. 'त्याज्ज्ञान' | १५ गट धातुर्थ्यान |