पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

पछः लण्ड: ६] छान्दोग्योपनिषन् । अथेत्यादिना । ननु यथा श्रुतं स्थानमेव होतृषदनं किं नेष्यते तत्राऽऽह-- न हीति । होत्राकमणो याफलमाद्रियते सत्प्रश्नपूर्वकमविशेषतो दर्शयति--किं तदित्यादिना । निपातद्वयमवधारणातिशयफलकं क्रियापदेन संबध्यते । अपिशब्दस्तु निष्ठानन्तरभावितया नेतव्यः । दुष्टमुद्गानमेव स्पष्टयति--उद्ग.त्रेति । कथमन्यनिष्ठात्कर्म णोऽन्यत्र फलमाहतुं शक्यमिशत्याङ्कयाऽह-चिकित्सयति । उद्गाता प्रणोद्गीथैकत्व. विज्ञानमाहात्म्याप्रामादिकं स्वकर्मणि प्राप्तं क्षतं हौत्राकर्मणः सम्यक्प्रयुक्ताप्रणवा प्रति संदधातीलधः ॥ ५ ॥ इति प्रथमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ (य प्रधमा मायस्य ए: खE: ।) अथेदानी सर्वफलसंपत्त्यर्थमुद्गीथरयोपासनान्तरं विधित्स्यते-- इयमेवर्गमिः साम तदेतदेतस्यामच्यध्यूढ५ साम तस्मादृच्यध्यूढ५ साम गीयत इयमेव साऽग्निरम स्तत्साम ॥१॥ इयमेव पृथिव्यक् । ऋचि पृथिवी दृष्टिः कार्या। तथाऽग्निः साम । साम्न्यनिदृष्टिः । कथं पृथिव्यग्न्योवसामत्वमिति । उच्यते । तदेतत्तदेतदग्न्याख्य सामैतस्यां पृथिव्यामृच्यध्य ढमधिगतमपरिभाषेन स्थितमित्यर्थः। ऋचीव साम । तस्मादत एव कारणाच्यध्यढमेव साम गीयत इदानीमपि सामगैः । यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं तथैतौ पृथिव्यनी । कथम्, इय. मेघ पृथिवी सा सामनामार्धशब्दवाच्या। इतरार्धशब्दवाच्योऽनिरमस्तदेतत्पृथिव्यनिद्वयं सामकशब्दाभिधेयत्वमापन साम । तस्मानान्योन्यं भिन्नं पथिव्यग्निद्वयं नित्यसंश्लिष्टमुक्सामनी इव । तस्माच्च पृथिव्यग्न्योक्सामत्वमित्यर्थः । सामाक्षरयोः पृथिव्यनिदृष्टिविधानार्थमियमेव साग्निरम इति केचित् ॥१॥ चमवेत्यादिसंदर्भय तात्पर्यमाह--अथेति । पुत्राद्यैश्वर्यैकदेशविषयोपासनोपदेशानतामयसरे प्राप्त ज्योतिष्टोमादावधिकृतस्य सम्प्रैश्वर्यप्राप्त्यर्थमधिदेवाध्यात्मविभागेनोद्गीयवि. षयमेवापूर्वमुपासनमस्मिन्ग्रन्थे विधातुष्टिमित्यर्थः । तत्र तदङ्गभूतमुपासनमादौ विदधातिहुयमेवेति । पृथिव्यामग्दृष्टिरत्र नेष्टा कर्माङ्गत्य संस्कर्तव्यत्वादित्यभिप्रेत्याऽऽह-- १ क, ग. ङ. च. ८. इ. १ । २ फ. ग. ङ. च. ३. यसभि ।