पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ आनन्द गिरिकृतटीकासँवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्याये- तत्सेविनां तेजोवलवीर्यविज्ञानधर्माणामपहन्तु विनाशयित्रित्येतत् । यदेवंलक्षणं श्येतं लिन्दु पिच्छलं तन्माऽभिगां माऽभिगच्छेयम् । द्विर्वचनमत्यन्तानर्थहेतु- त्वप्रदर्शनार्थम् ॥ १ ॥ इत्यष्टमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ लक्षणनिर्देशस्य प्रकृतोपयोगं दर्शयति - आध्यानायेति । सर्वाणि ह वा इमानि भूतान्याकाश देव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति । आकाशो ह्येवैभ्यो आयानित्याद्याः श्रुतयः । आकाशशब्देनाऽऽत्मनः श्रुतिषु प्रसिद्धले हेतुमाह -- आकाश इवेति । ते यदन्तरेत्यत्र ते इति पदं प्रथमाद्विवचनान्तं गृहीत्वा व्याख्याय द्वितीयाद्विवचनान्तं षष्ठ्य- र्यमादाय व्याचष्टे--तयोवति । यदन्तरति समस्त पदं पूर्वत्र व्याख्यातमधुना तु व्यस्तं व्याकृतं तदेव व्याकरणं संक्षिपति -- नामरूपाभ्यामिति । ताभ्यामस्पृष्टं चेत्कथं तन्त्रि- चहकमित्य।शङ्कयाऽऽह~नामरूपाभ्यामस्पृष्टमिति । मायावशादिति शेषः । आत्म- त्वेऽपि कथं करतलामलकर ह्मणोपरोक्षवमत आह -- आत्मा होति । तेन स्वस्सं• वैद्यःचेनेति यावत् । कुतो देहद्वयोपहितस्पाऽऽस्मनः स्त्रसंत्रेद्यत्त्रं तत्राऽऽह-अशरीर इति । परिच्छिन्नस्याशरीरत्वमयुक्तभित्याशङ्कयाऽऽह-व्योमवदिति । ब्रह्मैव प्रत्यक्षभूतमिति कथ- मबगतमित्याशङ्कयाऽऽह – आत्मेति । अनात्मत्वं पेदब्रह्माचप्रसङ्गात्प्रत्यग्भुतं ब्रह्म वक्तव्य- मिल्यर्थः । उपास्यस्वरूपं दर्शयित्वा तदुपासकस्य प्रार्थना मन्त्रमुत्थाप्य व्याकरोति -- अत ऊर्ध्वमिति । प्रथमतो ब्राह्मणग्रहणे हेतुमाह - ब्राह्मणा एवेति । विशेष्यं निर्दिशति – स्त्रीव्यञ्जनमिति । योनिशब्दितं प्रजननेन्द्रियमित्यर्थः । कथं तद्भक्षयितु भवेत्ताह- तत्सेविनामिति । तदभिगमनं नाम गर्भवासस्तस्यातिशयेनानर्थहेतुत्वं ज्ञापयितुं द्विवचन- मित्यर्थः ॥ १ ॥ - इत्यष्टयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ( अथाष्टाध्यायस्य पञ्चदशः खण्डः । ) ततला प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलावेदमवीत्य यथावि- धानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्चि- १ ग. ङ. च. श्वेतं । २ ख. घ. ङ. च. ट, ण. पिच्छिलं । २ऋ. ख. छ. ञ. ण. मेद नत्ये | ४ क. ख. ग. ञ. ट. ग. विशेषं |