पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बष्टः खण्डः ६] छान्दोग्योपनिषत् । Movie ४५ परः कृष्णं तत्साम तदेतदेतस्यामृच्चध्यूट साम तस्माच्य ध्यूढ साम गीयते ॥ ५॥ अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैबई । अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कापै तत्साम ! तद्धयेकान्तसमाहितदृष्टे- दृश्यते ॥ ५॥ - अङ्गोपासनानि कानिचिदुक्वा तागेवोपासनान्तरमाह--अथेति । आदित्यस्य मण्डलात्मनो यद्पं शुक्लं दृश्यत ऋचि तद्दष्टिः कर्तव्येत्यर्थः । तदेव रूपं विशिनष्टि- मा इति । तामेव व्याचठे--शुक्ला दीप्तिरिति । ऋचि यथा पूर्वोक्तरूपदृष्टिस्तथा सान्नि वक्ष्यमाणस दृष्टिरष्ठेयेत्याह--अथेति । नन्वादित्ये शौक्लयबदनतिशयं काष्ण्यं नास्माभिरनुभूयते तत्राऽ:ह-तद्धीति । एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टिस्तस्याऽऽदित्ये निरतिशयं काप्यं दृश्यते तथा च तदृष्टिः साम्नि श्लिष्टेयर्थः ॥ ५ ॥ अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽ- न्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्म- श्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः॥६॥ ते एवैते भाः शुक्लकृष्णत्वे सा चामश्च साम । अथ य एषोऽन्तरादित्य आदित्यस्यान्तमध्ये हिरणपयो हिरण्मय इव हिरण्मयः । न हि सुवर्णविकारत्वं देवस्य संभवति । ऋक्सामगेष्णत्वापहताप्मत्वासंभवात् । न हि सौवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिपिध्येत । चाक्षुषे चाग्रहणात् । अतो लुप्तोपम एव हिरण्मयशब्दो ज्योतिर्मय इत्यर्थः । उत्तरेवपि समाना योजना । पुरुषः पुरि शयनात्पूरयति वा स्वेनाऽऽत्मना जगदिति दृश्यते निवृत्तचक्षुभिः समाहित- 'चेतोभिब्रह्मचर्यादिसाधनापेक्षम् । तेजस्विनोऽपि श्मश्रुके शादयः कृष्णाः स्युरि। त्यतो विशिनष्टि-हिरण्य श्मश्रुर्हिरण्यकेश इति । ज्योतिर्मयोन्येवास्य श्मश्रूणि केशाश्वेत्यर्थः । आप्रणखात्मणखो नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इक भारूप इत्यर्थः ॥ ६॥ - क्षः । । ख. ध. ङ, ञ. पेक्षयम् । ३ ग. घ. ड.. १ ग. ट. निवृत्त । २ ६. ट. क. ट. ८. ड. ढ. याण्येवा ।