पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ आनन्दगिरिकृतटीकासंवलितश्चांकरभाष्यसमेता-[ १ प्रथमाध्याये- दित्यादीनामुद्गीथे संपाद्योपासनमत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र संपाद्योपासनं विव. क्षित्वा सर्वसमात्मत्वमाह तस्येत्यादिवाक्यमित्यर्थः । मण्डलावच्छिन्नस्य पुरुषस्य कथमृगा- दिगेष्णत्वमित्याशङ्कयाऽऽह -सर्वात्मेति । परस्य स्वारस्येन सर्वात्मत्यादाध्यानाथ मण्ड- लावच्छेदादुपपन्नमृगादिगेष्णत्वमित्यर्थः । तत्रैव हेत्वन्तरमाह--परापरेति । सर्वात्मत्वं साधयति--सर्वयोनित्वादिति । सर्वकारणत्वेन सर्वात्मत्वादगादिगेष्णत्वं युक्तमेवेत्यर्थः । तस्मा दुद्गीथ इति वाक्यं योजयति-- यत इति । प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्येनोद्गीथत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना । किमिति परोक्षनाम्ना देयो व्यपदिश्यत इत्याशङ्कय परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्यन्तरमाश्रि. त्याऽऽह-परोक्षभियत्वादिति । उन्नामस्वे देवस्योद्गातुरुगातत्वप्रसिद्धि प्रमाणपति--- तस्मादिति । तच्छब्दार्थ स्फुटयति-यस्मादिति । प्रकृतस्योन्नाम्नो देवस्याऽऽगाना- दित्यतःशब्दार्थः । उद्गातुरुगातेति नामप्रसिद्धिरिति युक्तेति योजना । सर्वपाप्मोदयलि- ङ्गात्तस्य चान्यत्रासंभवादादित्यान्तर्गतो देवः परमात्मे युक्तं तत्रैव हेत्वन्तरमाह-स एष इति । देवकःमानामादित्यादपरितनलोकेऽवधिष्टातारो ये देवास्तेषां कामाः काम्यमानफल- विशेषास्तेषामिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र संभवति । एष सर्वेश्वर इति श्रुतेरिति भावः ॥ ८ ॥ इति प्रथमाध्यायस्य पष्टः खण्डः ॥६॥ (अथ प्रथमाध्यायस्य सप्तमः खण्डः ।) अथाध्यात्म वागेवर्माणः साम तदेतदेतस्यामृच्यध्यू- ढ५ साम तस्माच्यध्यूढ५ साम गीयते । वागेव सा प्राणोऽमस्तत्साम ॥ १॥ .. अधाधुनाऽध्यात्ममुच्यते । वागेवाणः साम । अधरोपरिस्थानत्वसामान्यात् । पाणी प्राणमुच्यते सह वायना, वागेव सा प्राणोऽम इत्यादि पूर्ववत ॥१॥ आधिदैविकोपारत्यानन्तर्यमथशब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्ये- त्यत्र हेतुमाह-अधरोति । कथमुक्सामयोरिव वाक्प्राणयोरधरोपरिस्थानत्वं तत्राऽऽह- प्राण इति । स्थानमात्रत्वं व्यावर्तयति-सहेति ॥१॥ - क. ट. परात्मे ! २ क, 'ति । माणमा । ३ ग, ङ, ट, 'मानं व्या ।