पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

आनन्दगिरिकृसटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्यायेअथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते । पूर्ववत् । संवर्गध्यात्म वागाद्या पृथिव्याद्या बाधिदैवतम् । प्रसिद्धा च ऋक्पादबद्धाक्षरात्मिका । तथा साम । उक्थसाहचर्यादा स्तोत्रं सामोक्थं शस्त्रमुक्थादन्यत्तथा यजुः स्वाहास्वधावपडादि सर्वमेव वाग्यजुस्तत्स एव । सर्वात्मकत्वात्सर्वयोनित्वाचेवि ह्यबोचाम । ऋगा दिप्रकरणात्तद्ब्रह्मेति त्रयो वेदाः । तस्यैतस्य चाक्षुपस्य पुरुषस्य तदेव रूपमतिदिश्यते । किं तद्यदमुष्याऽऽदित्यपुरुषस्य । हिरण्मय इत्यादि यदधिदैवतमुक्तम् । यावमुष्य गेष्णो पर्वणी तावेवास्यापि चाक्षुषस्य गेप्णौ । यच्चामुष्य नामोदित्युद्गीथ इति च तदेवास्य नाम । स्थानभेदाद्रूपगुणनामातिदेशादीशितृत्वविषयभेदव्यपदेशाच्चाऽऽदित्यचाक्षुषयोर्भेद इति चेत् । न । अमुनाऽनेनैवेत्ये कस्योभयात्मप्राप्त्यनुपपत्तेः । द्विधाभावेनोपपद्यत इति चेत् । वक्ष्यति हि स एकधा भवति त्रिधा भक्तीत्यादि । न । चेतनस्यैकस्य निरवयत्वाद्विधामावानएपत्तेः। तस्मादध्यात्माधिदेवतयोरेकत्वमेध । यत्तु रूपाद्यतिदेशो भेदकारणमवोचो न तद्भेदावगमाय । किं तर्हि स्थानभेदाढ़ेदाशङ्का मा भूदित्येवमर्थम् ॥ ५॥ आध्यात्मिक प्रधानोपासनशेषत्वेनाङ्गोपासनान्युक्त्वाऽनन्तरं प्रधानोपासनाविषयं दर्शयतिअथेति । दृश्यत इति प्रयोगाच्छायात्माऽयमित्याशङ्कय ऽऽह--पूर्ववदिति । यथा पूर्वस्मिन्नाधिदैविके वाकये समाहितचेतोभिरादित्यपुरुषस्य दृश्यत्वमुक्तं तथा चाक्षुषपुरुषस्थापि विशिष्टाधिकारिभिरेव दृश्यत्वमेष्टव्यमित्यर्थः । छयामपक्षे वाक्यशेषविरोधमभिप्रेत्याऽऽह-सवेति । येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः । ऋच्युक्तं न्यायं साम्न्यतिदिशति-तथेति । यत्किंचित्साम तत्सर्व स एव पुरुष इत्यर्थः । ऋक्सामशब्दयोरर्थान्तरमाह-उवथेति । ऋक्स म यदिति दृष्टान्तस्तथाशब्दार्थः । कथमृगाद्यात्मत्वं परस्येत्याशङ्कयाऽऽह-सवात्मकत्वादिति । ब्रह्मशब्दस्य परमात्मविषयत्वं व्यावर्तयन्प्रकरणादित्युक्तन्यायेन त्रयो वेदाः स एव पुरुष इत्युपसंहारः । छायात्मनो जडस्य व्यावृत्त्यर्थ रूपातिदेशं दर्शयति-तस्येति । १ क. ग. घ. ड. च. ट. ड. सम ऋशस्त्र । २ डः ठ. मुक्ताद' । ३ ग. ट. 'भावो नो । ४ क. ति दिया । " ग. ट. पत्तिः । त। ६ क. "मर्थः ॥ ५॥, ग. °मर्थे ॥ ५॥ ७क. ग. ट. °षयं व्या।