पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः ७] गा छान्दोग्योपनिषत् । गाय किं तदादित्यपुरुषस्य रूपमित्यपेक्षायामाह-हिरण्मय इत्यादीति । इतश्च नायं छाया- मैत्याह-यावमुध्यति । नामारि देशोऽप्येतमर्थमुपोद्बलयतीत्याह-यच्चेति । आदित्य- चाक्षुषयोरुपाययोर्मेदादुपासनाऽपि मिन्नेति शङ्को-स्थानेति । आदित्यमण्डलं चक्षु. श्वति स्थाने मिद्यते रूपं हिरण्मयो हिरण्यइमरित्यादि ऋगादिगेष्णत्वादिर्गुण उदित्यादि नाम तेषामतिदेशस्तस्यैतस्य तदेव रूपमित्यादिः । ये चामुष्मापराञ्चो लोकास्तषों चचे देवकामानां चेत्यधिदैवतम् । ये चैतस्मादर्वाञ्चो लोकारतेषां चेष्टे देवकामानां मनुष्यका- मानां (णां ) चेत्यध्यात्मम् । इत्ययमीशितृत्वविषयों भेदव्यपदेशः । अतश्चैतयोर्भेदादु- पासनमपि भिन्नमेवेत्यर्थः । नोपास्यभेदादुपासनाभेदोऽस्तीति दूषयति-नेति । उपासक- स्तावदमुनाऽऽदित्यात्मना पराशो लोकान्देवकामांश्चाऽऽप्नोति स एवानेन चाक्षषरूपेणार्या. चीनलोकान्मनुष्यकामांश्चाऽऽप्नोतीति श्रूयते । न चैकस्य वस्तुतो भिन्नोभयरूपत्वप्राप्तिरु- पपद्यते । तस्माद्भेदकल्पना न युक्तेल्यर्थः । उभयात्मकत्वमेकस्यापि विद्यामाहात्म्याद्वेद्य- भावोपगमादुपपन्नमिति शङ्कते-द्विधेति । एकस्य विद्यावशादनेकरूपत्वे वाक्यशेषं प्रमाणयति--वक्ष्यति होति । एकस्यानेकशरीरपरिग्रहेति न स्वरूपभेदोपपत्तिरिति परिहरति-न चेतनस्योते । एकत्वसाधकसद्भावस्तच्छब्दार्थः । परोक्तं भेदकमनुवदति- यत्त्विति । भेदकारणमित्यस्मादुपरिष्टादितिशब्दो द्रष्टव्यः । दूषयति-न तदित्यादिना। तदित्यतिदिश्यमानं रूप.युक्तम् ॥ ५ ॥ स एष ये चैतस्मादश्चिो लोकास्तेषां चेष्टे मनुष्य- कामानां (णां) चेति तय इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥ स एष चाक्षुषः पुरुषो ये चैतस्मादाध्यात्मिकादात्मनोऽर्वाञ्चोऽर्वाग्गता लोकास्तेषां चेष्टे मनुष्यसंबन्धिनां च कामानाम् । तत्तस्माद्य इमे वीणायां गायन्ति गार्थकास्त एतमेव गायन्ति । यस्मादीश्वरं गायन्ति तस्मात्ते धनस. नयो धनलाभयुक्ता धनवन्त इत्यर्थः ॥ ६ ॥ आधिदैविकपुरुषव्दाध्यामिकेऽपि पुरुषे निरतिशयैश्व श्रवणाञ्च तयोरेक्यमित्याह-स एष इति । तयोर्भेदाभावे हेत्वन्तरमाह-तत्तस्मादिति । ईश्वरस्यैव प्रागुक्तहेतोर्गान • विषयत्वयोग्यत्व'दित्यर्थः । तच्छब्दार्थ स्फुटयति-यस्मादिति ॥ ६ ॥ अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति १ ख. छ. ब दिना 1 इ । । ८. छ, ञ. म । २ ढ. 'यन्त्यागायनास्त्.. ४ ग, घ ड़, ट, ठ. इ.यनास्त ।