पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ता- श्वाऽऽमोति देवकामाश्च ॥ ७ ॥ अथ य एतदेवं विद्वान्यथोक्तं देवमुद्गीथं विद्वान्साम गायत्युभौ स गायति चाक्षुषमादित्यं च । तस्यैवंविदः फलमुच्यते---सोऽमुनैवाऽऽदित्येन स एप ये चामुष्मात्पराञ्चो लोकास्तश्चिाऽऽनोति आदित्यान्तर्गतदेवो भूत्वेत्यर्थो देवका- मांश्च ॥ ७ ॥ स्थानभेदेन यथोक्तोपासनवतः फलोक्यर्थं पातनिकां करोति अथेति । एतत्सामेति संबन्धः । एवं विद्वानित्येतदेव विभजते-यथोक्तमिति । विद्वानित्यस्मादुपरिष्टादथशब्दः ‘संबध्यते । सोऽमुनैव लोकान्कामांश्चाऽऽप्नोतीति संबन्धः । आप्तिप्रकारं विवणोति--स एष इति । उपास्यवदुपासकस्यापि कुतो निरतिशयमैश्वर्यं न हि द्वयोनिरङ्कुशमैश्वर्य 'युक्तमित्याशङ्कयाऽऽह-आदित्येति । अमुनैवाऽऽदित्येनेत्युक्तमेवात्र व्यक्तीकृतम् ॥ ७ ॥ अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताश्वाऽऽप्नोति मनुष्यकामाश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८॥ कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ ९ ॥ इति प्रथमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ अथानेनैव चाक्षुषेणैव ये चैतस्मादश्चिो लोकास्तश्चिाऽऽप्नोति मनुष्यका- मांश्च चाक्षुषो भूत्वेत्यर्थः । तस्माद हैवंविदद्गाता याद्यजमानं कमिष्टं ते तक काममागायानीति । एष हि यस्माददगाता कामागानस्योद्गानेन कामं संपाद- यितुष्टेि समर्थ इत्यर्थः। कोऽसौ. य एवं विद्वान्साम गायति साम गायति । द्विरुक्तिरुपासनसमाप्त्यर्था ॥ ८॥९॥ इति प्रथमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ क. 'ट. मैं तदे । २ ख. छ, न. देनोक्तो' । ३ ख. छ, न. 4 यु।।