पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः ८] छान्दोग्योपनिषत् । अथशब्दस्तथापर्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति संबन्धः । उक्तफलस्य याजमानत्वं दर्शयति-तस्मादिति । तच्छब्दार्थमेव कथयति--एष हीति । उद्गा तारं विशिनष्टि---कोऽसाविति । उद्गीथे परस्य संमाद्योपासनं विभागोंक्तमुपसंहरति- द्विरुतिरिति ॥ ८॥॥९॥ इति प्रथमान्यायस्य सतमः खण्डः ॥ ७ ॥ (अथ प्रथमाध्यायस्याष्टमः खण्डः ।) त्रयो होगीथे कुशला बभूवुः शिलकः शालाव- त्यश्चैकितायनो दालल्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां बदाम इति ॥ ३॥ अधोपास्यत्वादक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्त- रमानिनाय । इतिहासस्तु सुखाववोधनार्थः । त्रयस्त्रिसंख्याकाः । ह, इत्यैति. द्वार्थः । उद्गीथ उद्गीथज्ञानं प्रति कुशला निपुणा बभूवुः । कस्मिंश्चिद्देशे निमित्त वा समेतानामित्यभिप्रायः । न हि सर्वस्मिञ्जगति त्रयाणामेव मीयादिविज्ञाने । श्रूयन्ते पस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः । के ते त्रय इत्याह--शिलको नामतः शलावतोऽपत्यं शालावत्यः । चिकिताय- माय चैकितायनः । देल्भगोत्रो दालभ्यो द्वयामुष्यायणो वा प्रचाहणो नामतो जीवलस्यापत्यं जैवलिरित्येते त्रयस्ते होंचुरन्योन्यमुद्गीथे वै कुशला निपुणा रति प्रसिद्धाः स्मः। अतो हन्त यद्यनुमतिर्भवतामुद्गीथ उद्गीथज्ञाननिमित्तां निवारणां पक्षप्रतिपक्षोपन्यासेन वदामो वादं कुर्म इत्यर्थः । तथा च नटियसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति । अतस्त. योगः कर्तव्य इति चेतिहासप्रयोजनम् । दृश्यते हि शिलकादीनाम् ॥१॥ माधिदेवतस्थानभेदावच्छिन्नपरमात्मदृष्टयोद्गीथोपासनमखिलपाप्मापगमफलमुक्तम् । ह. ज. झ. अ. "वु: सिल । २ ख. ङ. अ. द. बोधार्थः । ३ ख. च. द. हा प. उ. ड. "नः । दाम्यो । ५ क. ङ. च ट. दम्यगो । ६ङ, च. द. हि सिज । ७ क, ततत्स्थ न ! :-